पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९०
सटीकलोचनोपेतध्वन्यालोके


 शान्तश्च तृष्णाक्षयसुखस्य यः परिपोषस्तल्लक्षणो रसः प्रतीयत एव । तथा चोक्तम्-

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम् ।।


लोचनम्

मित्रावसोः प्रविष्टस्य मलयवतीनिर्गमनकारिणः 'संसर्पद्भिः समन्तात् इत्यादि काव्यो- पनिबद्धक्रोधव्यभिचार्युपकृतवीररसान्तरितो निवेशितः ।

 ननु नास्त्येव शान्तो रसः तस्य तु स्थाय्येव नोपदिष्टो मुनिनेत्याशङ्कयाह- शान्तश्चेति । तृष्णानां विषयाभिलाषाणां यः क्षयः सर्वतो निवृत्तिरूपो निर्वेदः तदेव सुखं तस्य स्थायिभूतस्य यः परिपोषो रस्यमानताकृतस्तदेव लक्षणं यस्य स शान्तो रसः । प्रतीयत एवेति । स्वानुभवेनापि निवृत्तभोजनाद्यशेषविषयेच्छाप्रसरत्वकाले सम्भाव्यत एव ।

 अन्ये तु सर्वचित्तवृत्तिप्रशम एवास्य स्थायीति मन्यन्ते । तृष्णासद्भावस्य प्रस. ज्यप्रतिषेधरूपत्वे चेतोवृत्तित्वाभावेन भावत्वायोगात् । पर्युदासे त्वस्मत्पक्ष एवायम् ।

बालप्रिया

कामादितत्तत्पुरुषार्थलाभः क्रमेणैव भवतीत्यंशे उपष्टम्भकमिदं वचनमिति बोध्यम् । निवेशित इति। नागानन्दनाटकमवलोकयतां सहृदयानां स्पष्टोऽयं विषयः ।

 निवृत्तिरूपो निर्वेद इति । निवृत्तिरूपः प्रध्वंसहेतुः । निर्वेद इति ।तत्त्व- ज्ञानजनितो विषयेषु हेयत्वबुद्धिरित्यर्थः । यद्वा-सर्वतो निवृत्तिरूप इति । सर्व- स्माद्विषयान्मनोनिवृत्तिरूप इत्यर्थः । निवृत्तिर्नाम काचिच्चित्तवृत्तिः । तस्य स्थायि. भूतस्येति सुखस्येत्यन्तस्य विवरणम् । रस्यमानताकृतो यः परिपोष इति सम्बन्धः। निवृत्तेति । निवृत्तः भोजनाद्यशेषविषयाया इच्छायाः प्रसरो यतः पुरुषात्तस्य भाव- स्तत्वं तस्य काले प्रसरकाले इति वा पाठः । सम्भाव्यते ज्ञायते ।

 शमः स्थायीति केचित् , तन्मतमाह-अन्य इति । सर्वति । सर्वासां चित्त वृत्तीनां रत्यादिरूपाणां प्रशमः प्रकर्षेण शम इत्यर्थः । तृष्णाक्षयशब्दार्थोऽप्ययमेवेति भावः । अस्येति । शान्तस्येत्यर्थः । सर्वचित्तवृत्तिप्रशम इत्यनेन सर्वासां चित्तवृत्ती. नामभावस्य विवक्षणे दोषं दर्शयन्नाह-तृष्णेत्यादि । तृष्णानां सर्वासां चित्तवृत्तीनां सद्भावस्य प्रसरस्य यः प्रसज्यप्रतिषेधोऽत्यन्ताभावस्तद्रूपत्वे । सर्वचित्तवृत्तिप्रशमप. दार्थस्येति शेषः । चेतोवृत्तित्वाभावेनेति । अभावरूपत्वादिति भावः । भाव- त्वायोगादिति । भावान्तर्भावासम्भवादित्यर्थः । पर्युदास इति । विवक्षिते इति शेषः । पर्युदासन्यायेनार्थे विवक्षिते सतीत्यर्थः । यथा अधर्मादिपदस्य धर्मविरोधिपा- पादिकमर्थः, तथा तृष्णाक्षयपदस्य सर्वचित्तवृत्तिप्रशमपदस्य वा सर्वचित्तवृत्तिविरोधी तत्त्व-