पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८९
तृतीयोद्द्योतः


रव्यवधानेन प्रबन्धे निवेशयितव्यः । यथा शान्तशृङ्गारौ नागानन्दे निवेशितौ।


लोचनम्

निमित्तेन यो निर्दोषः न विरोधी किं तु निरन्तरत्वेन निमित्तेन विरोधमेति स तथाविधवि- रुद्धरसद्वयाविरुद्धेन रसान्तरेण मध्ये निवेशितेन युक्तः कार्य इति कारिकार्थः । प्रबन्ध इति बाहुल्यापेक्षं, मुक्तकेऽपि कदाचिदेवं भवेदपि । यद्वक्ष्यति-'एकवाक्यस्थयोरपि' इति। यथेति । तत्र हि-रागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः' इत्यादिनोपक्षेपात्प्रभृति परार्थशरीरवितरणात्मकनिर्वहणपर्यन्तः शान्तो रसस्तस्य विरुद्धो मलयवतीविषयः शृङ्गारस्तदुभयाविरुद्धमद्भुतमन्तरीकृत्य क्रमप्रसरसम्भाव- नाभिप्रायेण कविना निबद्धः 'अहो गीतमहो वादिनम्' इति । एतदर्थमेव 'व्यक्तिर्व्य- ञ्जनधातुना' इत्यादि नीरसप्रायमप्यत्र निबद्धमद्भुतरसपरिपोषकतयात्यन्तरसरसता- वहमिति 'निर्दोषदर्शनाः कन्यकाः' इति च क्रमप्रसरो निबद्धः । यथाहुः–'चित्तवृ- त्तिप्रसरप्रसंख्यानधनाः संख्याः पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेने ति । अन- न्तरं च निमित्तनैमित्तिकप्रसङ्गागतो यः शेखरकवृत्तान्तोदितहास्यरसोपकृतः शृङ्गार- स्तस्य विरुद्धो यो वैराग्यशमपोषको नागीयकलेवरास्थिजालावलोकनादिवृत्तान्तः स

बालप्रिया

विरोधवानित्यस्य विवरणम्-विरोधमेतीति । उत्तरार्धं व्याचष्टे-स इत्यादि । प्रबन्ध इतीति । प्रबन्धे निवेशयितव्य इत्यत्र प्रबन्धग्रहणमित्यर्थः । यथा शान्त- शृङ्गारौ नागानन्दे निवेशितावित्येतद्विवृणोति-तत्रेत्यादि । इत्यादिना य उपक्षेपस्त- स्मादित्यर्थः। परेति । परार्थं यच्छरीरवितरणं तदात्मकं यन्निर्वहणं तत्पर्यन्त इत्यर्थः । शान्तो रस इति । निबद्ध इत्यस्यापकर्षः । तस्येत्यादि । शृङ्गारः इत्यद्भुतमन्तरी- कृत्य निबद्ध इत्यन्वयः । क्रमेति । क्रमेण यः प्रसरः रतिरूपशृङ्गारस्य नायके प्रसरणं तस्य सम्भावनारूपो य अभिप्रायस्तेनेत्यर्थः । इत्यादिनिबद्धमिति सम्बन्धः। इति चेति । निर्दोषदर्शनाः कन्यका इत्युक्त्या वक्तरि रत्यनाविर्भावप्रकाशनादिति भावः । चित्तवृत्तीति । चित्तवृत्तीनां रागादीनां ये प्रसरास्तेषु, यद्वा चित्तवृत्तीनां प्रसरो येषु विषयेषु तेषु यत्प्रसंख्यानं दोषदर्शनं, तदेव धनं येषां ते । तद्वचनमाह-पुरुषार्थे- त्यादि । सांख्यकारिकायाः पूर्वार्धमिदम् । “प्रकृतेर्विभुत्वयोगान्नटवयद्वतिष्ठते लिङ- मित्युत्तरार्धम् । निमित्तं धर्मादिनैमित्तिकं धर्मादिकारणं स्थूलदेहादि तयोः प्रसङ्गेन सम्बन्धेन । 'इदं लिङ्गं सूक्ष्मशरीरम् । 'नटवद्वयवतिष्ठते। यथा नटो विविधं रूपं गृहीत्वा व्यवहरति तथा देवादिशरीरं गृहीत्वा व्यवहरति । किमर्थम् , तत्राह- 'पुरुषार्थेति । पुरुषार्थफलकमित्यर्थः । तत्तद्भोगादृष्टबलात्तत्तद्भोगार्थमेव तथा व्यव- हरतीति यावत् । कुतोऽस्थैवविधो महिमेत्यत्राह-'प्रकृते'रित्यादि इति तद्व्याख्या ।