पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८८
सटीकलोचनोपेतध्वन्यालोके


नायकस्य नयपराक्रमादिसम्पत्सुतरामुद्दयोतिता भवति । एतच्च मदीयेऽ र्जुनचरितेऽर्जुनस्य पातालावतरणप्रसङ्गे वैशद्येन प्रदर्शितम् ।

 एवमैकाधिकरण्यविरोधिनः प्रबन्धस्थेन स्थायिना रसेनाङ्गभावग- मने निर्विरोधित्वं यथा तथा तद्दर्शितम् । द्वितीयस्य तु तत्प्रतिपाद- यितुमुच्यते-

एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् ।
रसान्तरव्यवधिना रसो व्यङ्गयः सुमेधसा ।। २६ ॥

यः पुनरेकाधिकरणत्वे निर्विरोधो नैरन्तर्ये तु विरोधी स रसान्त-


लोचनम्

परिपुष्टतायाः प्रत्युत निर्दोषता नायकोत्कर्षाधानात् । अपरिपोषणन्तु दोष एवेति याव- त् । अपिशब्दो भिन्नक्रमः । एवमेव वृत्तावपि व्याख्यानात् । ऐकाधिकरण्यमेकाश्रयेण सन्बन्धमात्रम्। तेन विरोधी यथा-भयनोत्साहः, एकाश्रयत्वेऽपि सम्भवति कश्चिन्नि रन्तरत्वेन निर्व्यवधानत्वेन विरोधी, यथा रत्या निर्वेदः । प्रदर्शितमिति । 'समुत्थिते धनुर्ष्वनौ भयावहे किरोटिनो महानुपप्लवोऽभवत्पुरे पुरन्दरद्विषाम्' इत्यादिना ॥२५॥

 द्वितीयस्येति । नैरन्तर्यविरोधिनः । तदिति । निर्विरोधित्वम् । एकाश्रयत्वेन

बालप्रिया

णम्-तथानिवद्धस्येति । यो अदोषते' त्येतद्विवृणोति--परीत्यादि । गम्यमर्थ- माह-अपरिपोषणन्त्वित्यादि अपिशव्द इति । 'पोषेऽप्यदोषते त्यपिशब्द इत्यर्थः । व्याख्यानादिति । तस्य विरोधिनोऽपीति व्याख्यानादित्यर्थः । एवं कारि- काव्याख्यानेन 'तत्रे त्यादिवृत्तिग्रन्थस्य विवरणादैकाधिकरण्यविरोधीत्यादिपूर्वभागमात्रं व्याचष्टे-ऐकाधिकरण्यमित्यादि । सम्बन्धमात्रं सम्बन्ध एव । दृष्टान्तमाह- भयेनत्साह इति । 'नैरन्तर्यविरोधी' त्येतद्विवृणोति--एकेत्यादि । एकाश्रयत्वे सम्भवत्यपि कश्चिन्निरन्तरत्वेन विरोधीति सम्बन्धः । निरन्तरत्वेनेत्यस्य विवरणम्- निर्व्यवधानत्वेनेति । समुत्थित इति । "श्रवेण तस्य तु ध्वनेर्विलुप्तमूलबन्ध नमशेषदैत्ययोषितां श्लथीबभूव जीवितमि' त्युत्तरार्धम् । किरीटिनोऽर्जुनस्य धनुर्ध्व- नाविति सम्बन्धः । पुरन्दरद्विषामसुराणाम् । उपप्लवस्यैव किञ्चिद्विवरणं श्रवेणे. त्यादि ॥ २५ ॥

 वृत्तौ 'ऐकाधिकरण्यविरोधिन' इत्यस्य ‘अङ्गभावगमने निर्विरोधित्वामित्यनेन सम्बन्धः। कारिकायाम् ‘एकाश्रयत्वे नैरन्तर्ये' इत्युभयत्र सप्तमी निमित्त इत्याशयेन व्याचष्टे-एकाश्रयत्वेनेत्यादि । निर्दोष इत्यस्य व्याख्यानम्-न विरोधीति ।