पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८७
तृतीयोद्द्योतः


तन्मतेनोच्यते । मतान्तरे तु रसानां स्थायिनो भावा उपचाराद्रसशब्दे- नोक्तास्तेषामङ्गत्वं निर्विरोधमेव ।

 एवमविरोधिनां विरोधिनां च प्रबन्धस्थेनाङ्गिना रसेन समावेशे साधारणमविरोधोपायं प्रतिपाद्येदानीं विरोधिविषयमेव तं प्रतिपादयितुमि- दमुच्यते ।

विरुद्धै काश्रयो यस्तु विरोधी स्थायिनो भवेत् ।
स विभिन्नाश्रयः कार्यस्तस्य पोषेऽप्यदोषता ॥ २५ ।।

 ऐकाधिकरण्यविरोधी नैरन्तर्यविरोधी चेति द्विविधो विरोधी। तत्र प्रबन्धस्थेन स्थायिनाङ्गिना रसेनौचित्यापेक्षया विरुद्धकाश्रयो यो विरोधी यथा वीरेण भयानकः स विभिन्नाश्रयः कार्यः । तस्य वीरस्य य आश्रयः कथानायकस्तद्विपक्षविषये सन्निवेशयितव्यः । तथा सति च तस्य विरो- धिनोऽपि यः परिपोषः स निर्दोषः । विपक्षविषये हि भयातिशयवर्णने


लोचनम्

तादिषु गमिगाम्यादीनामिति समासं पठन्ति । तदाह-मतान्तरेऽपीति । रस- शब्देनेति । 'रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः' इत्यादिप्राक्तन कारिकानि- विष्टेनेत्यर्थः ॥ २४ ॥

 अथ साधारणं प्रकारमुपसंहरन्नसाधारणमासूत्रयति-एवमिति । तमित्यवि- रोधोपायम् । विरुद्धति विशेषणं हेतुगर्भम् । यस्तु स्थायी स्थाय्यन्तरेणासंभाव्य- मानैकाश्रयत्वाद्विरोधी भवेद्यथोत्साहेन भयं स विभिन्नाश्रयत्वेन नायकविपक्षा- दिगामित्वेन कार्यः । तस्येति । तस्य विरोधिनोऽपि तथाकृतस्य तथानिबद्धस्य

बालप्रिया

आश्रितादिषु गम्यादीनामिति । द्वितीयया वेति सम्बन्धः । द्वितीयाश्रितेत्यादिसूत्रे "गम्यादीनामुपसंख्यान" मिति वार्तिकमनेन स्मारितम् ॥ २४ ॥

 साधारणं प्रकारमिति । विरोध्यविरोधिसाधारणं अविरोधोपायप्रकारमित्यर्थः । उपसंहरन्निति । अनेन प्रतिपाद्येत्यन्तवृत्त्यर्थो दर्शितः । असाधारणं विरोधिमा- त्रविषयकम् । अनेन विरोधिविषय मेवेतिवृत्त्यर्थो दर्शितः। विरुद्धतीति । विरुद्धका- श्रय इतीत्यर्थः । विरुद्धपदं विवृणोति-स्थायीत्यादि। असम्भाव्यमानः एकाश्रयः यस्य तत्त्वात् । सः तथाविधः स्थायी । तस्येति तत्पदार्थ विवृण्वन्नाह-तस्य विरोधिनोऽपीत्यादि । तथा कृतस्य विभिन्नाश्रयत्वेन कृतस्य । अस्यैव विवर-