पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८६
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

विषयः मतान्तरेऽपीत्यादिना च यो द्वितीयपक्षोपक्रमः सोऽतीव दुःश्लिष्ट इत्यलं पूर्व- वंश्यैः सह बहुना संलापेन । येषामिति । भावाध्यायसमाप्तावस्ति श्लोकः-

बहूनां समवेतानां रूपं यस्य भवेद्वहु ।
स मन्तव्यो रसस्थायी शेषाः सञ्चारिणो मताः ॥ इति ।

 तत्रोक्तक्रमेणाधिकारिकेतिवृत्तव्यापिका चित्तवृत्तिरवश्यमेव स्थायित्वेन भाति प्रासङ्गि- कवृत्तान्तगामिनी तु व्यभिचारितयेति रस्यमानतासमये स्थायि व्यभिचारिभावस्य न कश्चिद्विरोध इति केचिद्व्याचचक्षिरे । तथा च भागुरिरपि किं रसानामपि स्थायिसञ्चारि. तास्तीत्याक्षिप्याभ्युपगमेनैवोत्तरमवोचद्वाढमस्तीति ।

 अन्ये तु स्थायितया पठितस्यापि रसस्य रसान्तरे व्यभिचारित्वमस्ति, यथा क्रोधस्य वीरे व्यभिचारितया पठितस्यापि स्थायित्वमेव रसान्तरे, यथा तत्वज्ञानवि- भावकस्य निर्वेदस्य शान्ते ; व्यभिचारिणो वा सत एव व्यभिचार्यन्तरापेक्षया स्थायि- त्वमेव, यथा विक्रमोर्वश्यामुन्मादस्य चतुर्थेऽङ्के इतीयन्तमर्थमवबोधयितुमयं श्लोकः बहूनां चित्तवृत्तिरूपाणां भावानां मध्ये यस्य बहुलं रूपं यथोपलभ्यते स स्थायी भावः, स च रसो रसीकरणयोग्यः; शेषास्तु सञ्चारिण इति व्याचक्षते, न तु रसानां स्थायिस. ञ्चारिभावेनाङ्गाङ्गितोक्तेति । अत एवान्ये रसस्थायीति षष्ठया सप्तम्या द्वितीयया वाश्रि-

बालप्रिया

इति च पाठः । स दुःश्लिष्ट इत्यपकर्षः ।

 बहूनामिति । समवेतानामात्मनिष्ठानाम् बहूनां भावानामिति शेषः । चित्त- वृत्तिविशेषाणामित्यर्थः । मध्ये यस्य भावस्य, रूपं बहु भूयः प्रबन्धव्यापकं भवेत् । रस स्थायीति । रसः स्थायीति छेदः । “खर्परे शरी"ति विसर्गलोपः । सः स्थायी रसो मन्तव्य इति योजना। शेषा इति । रसा इति विपरिणामेनानुषङ्गः । उक्तमर्थं दर्शयन्नाह-तत्रेत्यादि । तत्रोक्तक्रमेण तस्मिन् श्लोके उक्तो यः क्रमस्तेन । रस्यमानतासमये इति । रस्यमानतायामपीति च पाठः । स्थायिव्यभिचारि- भावस्येति । रसानामिति शेषः । तथाचेत्यादि । भागुरिरपि वाढमस्तीत्यम्युपगमे- नैवावोचदित्यन्वयः।

 'मतान्तर' इत्यादिग्रन्थं तन्मतस्योपपत्तिं दर्शयन्नवतारयति-अन्ये त्वित्या- दि । अत्र वीर इत्यन्तमेकं वाक्यं, शान्त इत्यन्तं द्वितीय, चतुर्थेऽङ्क इत्यन्तं तृतीयं बोध्यम् । उन्मादस्येति । वितर्काद्यपेक्षयेति शेषः। समवेतानामित्यस्य विवरणं चित्तवृत्तिरूपाणां भावानामिति । सः स्थायी रसश्च मन्तव्य इति योजना । स्थायीत्य- स्य व्याख्यानम्-स्थायिभाव इति । रस इत्यस्य रसीकरणयोग्य इति । शेषा इति । अन्ये भावा इत्यर्थः । न त्वित्यादि । किन्तु स्थायिनामेवेति भावः । युक्ते- ति । उक्तेति च पाठः । षष्ठयेत्यादि । रसस्य रसे रसं स्थायीति विग्रह इति भावः ।