पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८५
तृतीयोद्द्योतः


यावान् परिपोषस्तावास्तस्य न कर्तव्यः, स्वतस्तु सम्भवी परिपोषः केन वार्यते । एतचापेक्षिकं प्रकर्षयोगित्वमेकस्य रसस्य बहुरसेषु प्रबन्धेषु रसानामङ्गाङ्गिभावमनभ्युपगच्छताप्यशक्यप्रतिक्षेपमित्यनेन प्रकारेणावि. रोधिनां विरोधिनां च रसानामङ्गाङ्गिभावेन समावेशे प्रबन्धेषु स्यादवि. रोधः । एतच्च सर्व येषां रसो रसान्तरस्य व्यभिचारीभवति इति दर्शनं


लोचनम्

इति । सम्भवीति । प्रधानाविरोधित्वेनेति शेषः । एतच्चेति ।उपका- र्योपकारकभावो रसानां नास्ति स्वचमत्कारविश्रान्तत्वात् ; अन्यथा रसत्वायोगात्, तद्- भावे च कथमङ्गाङ्गाङ्गितेत्यपि येषां मतं तैरपि कस्यचिद्रसस्य प्रकृष्टत्वं भूयः प्रबन्धव्यापकः त्वमन्येषां चाल्पप्रबन्धानुगामित्वमभ्युपगन्तव्यमितिवृत्तसङ्घटनाया एवान्यथानुपपत्तेः, भूयः प्रबन्धव्यापकस्य च रसस्य रसान्तरैर्यदि न काचित्सङ्गतिस्तदितिवृत्तस्यापि न स्या. त्सङ्गतिश्चेदयमेवोपकार्योपकारकभावः । न च चत्मकारविश्रान्तेर्विरोधः कश्चिदिति समन- न्तरमेवोक्तं तदाह-अनभ्युपगच्छतापीति । शब्दमात्रेणासौ नाभ्युपगच्छति । अकाम एवाभ्युपगमयितव्य इति भावः। अन्यस्तु व्याचष्टे-एतच्चापेक्षिकमित्यादिग्रन्थो द्वितो. यमनमभिप्रेत्य यत्र रसानामुपकार्योपकारकता नास्ति, तत्रापि हि भूयो वृत्तव्याप्तत्वमेवा- ङ्गित्वमिति । एतच्चासत् ; एवं हि एतच्च सर्वमिति सर्वशब्देन य उपसंहार एकपक्ष-

बालप्रिया

इत्यर्थः । तदभाव इति । रसत्वाभाव इत्यर्थः । कथमङ्गाङ्गितेति । रसयोरङ्गाङ्गि- भावः कथमित्यर्थः । तैरपीत्यस्याभ्युपगन्तव्यमित्यनेन सम्बन्धः। कस्यचिद्रसस्य प्रकृष्टत्वमित्यनेनैतचापेक्षिकमित्यादिग्रन्थो विवृतः । प्रकृष्टत्वं विवृणोति-भूय इत्यादि । अशक्यप्रतिक्षेपमित्यस्य विवरणम्-अभ्युपगन्तव्यमिति । अत्र हेतुमाह-इति- वृत्तेत्यादि । इतिवृत्तघटनायाः कथासङ्घटनस्य। एवमभ्युपगमे उपकार्योपकारकभावो- ऽप्यभ्युपगतो भवेदित्याह-भूय इत्यादि । सङ्गतिरिति । सम्बन्ध इत्यर्थः । तदि- ति । तदेत्यर्थः । न स्यादिति । सङ्गतिरित्यनुषज्यते । न च चमत्कारेति । चम- त्कारविश्रान्तेः कश्चिद्विरोधो न चेत्यन्वयः । तदाहेति । तदभिप्रायेणाहेत्यर्थः । शब्देति । वचनमात्रेणेत्यर्थः । अभ्युपगमयितव्य इति । युक्त्येति शेषः । द्विती. यं मतमिति । मतान्तरे त्वित्यादिना वक्ष्यमाणं मतमित्यर्थः। रसानामित्यादि । किन्तु सास्थायिनामिति भावः। तत्रापीति । तन्मतेऽपीत्यर्थः । भूय इत्यादि । तथाच वह्नितिवृत्तव्याप्तत्वमङ्गित्वमल्पेतिवृत्तव्याप्तत्वमङ्गत्वं चेति भावः । सर्वशब्देने- ति । सर्वशब्दं प्रयुज्येत्यर्थः। उपसंहार इति । तन्मतेनोच्यते इत्युपसंहार इत्यर्थः। एकपक्षविषय इति । रसो रसान्तरस्येत्युक्तैकपक्षविषयक इत्यर्थः । एतत्पक्षविषय

 ४९ ध्व०