पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८४
सटीकलोचनोपेतध्वन्यालोके


 अङ्गत्वेन पुनः पुनः प्रत्यवेक्षा परिपोषं नीयमानस्याप्यङ्गभूतस्य रसस्येति तृतीयः । अनया दिशान्येऽपि प्रकारा उत्प्रेक्षणीयाः । विरो. घिनस्तु रसस्याङ्गिरसापेक्षया कस्यचिन्न्यूनता सम्पादनीया । यथा शान्तेऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य । परिपोषरहितस्य रसस्य कथं रसत्वमिति चेत्-उक्तमत्राङ्गिरसापेक्षयेति । अङ्गिनो हि रसस्य


लोचनम्

रस इति शेषः। नन्वेवं नासौ परितुष्टो भवेदित्याशङ्कय मतान्तरमाह- -निवेशने वेति । अत एव वाग्रहणमुत्तरपक्षदाढर्थं सूचयति न विकल्पम् । तथा चैक एवायं प्रकारः । अन्यथा तु द्वौ स्याताम् । अङ्गिनो रसस्य यो व्यभिचारी तस्यानुवृत्तिरन- सन्धानम् । यथा-'कोपात्कोमललोल' इति श्लोकेऽङ्गिभूतायां रतावङ्गत्वेन यः क्रोध उपनिबद्धस्तत्र बद्ध्वा दृढं इत्यमर्षस्य निवेशितस्य क्षिप्रमेव रुदत्येति हसन्निति च रत्युचितेर्ष्यौत्सुक्यहर्षानुसन्धानम् ।

 तृतीयं प्रकारमाह-अङ्गत्वेनेति । अत्र च तापसवत्सराजे वत्सराजस्य पद्मा. वतीविषयः सम्भोगश्रृङ्गार उदाहरणोकर्तव्यः । अन्येऽपीति । विभावानुभावानां चापि उत्कर्षो न कर्तव्योऽङ्गिरसविरोधिनां निवेशनमेव वा न कार्यम् , कृतमपि चाङ्गिरस. विभावानुभावैरुपबृंहणीयम् । परिपोषिता अपि विरुद्धरस विभावानुभावा अङ्गत्वं प्रति जाग- रयितव्या इत्यादि स्वयं शक्यमुत्प्रेक्षितुम् । एवं विरोध्यविरोधिसाधारणं प्रकारमभिधाय विरोधिविषया. साधारणदोषपरिहारप्रकारगतत्वेनैव विशेषान्तरमप्याह-विरोधिन

बालप्रिया

रतावङ्गत्वेनेति । उपनिबद्ध इत्यनेनास्य सम्बन्धः । अनुभावद्वारा प्रदर्शित इत्यर्थः । तत्रेति । क्रोधे इत्यर्थः । तद्व्यभिचारितयेति यावत् । उदाहरणीकर्तव्य इति । स तत्राङ्गमिति भावः । अन्येऽपीत्याद्युक्तं विवृणोति-विभावेत्यादि । विभावानुभावानामि- त्यस्य विशेषणम्-अङ्गिरसविरोधिनामिति । निवेशनमेव वेति । षष्ठयन्तयोरत्रानु. षङ्गः। कृतमपीति । निवेशनमित्यनुषज्यते । अङ्गीति। अशिरसस्य ये विभावानु भावाः तदेकरूपं सत् तदेकरूपतां सम्पाद्येत्यर्थः । बृंहणीयं पोषणीयम् । अङ्गत्वं प्रति जागरयितव्याः अङ्गतां नेतव्याः। विरोध्यविरोधिसाधारणं प्रकारमिति । सम्भवन्तमिति शेषः । विरोधीति । विरोधिविषयः असाधारणश्च यो दोषपरिहारः प्रकारः तद्गतत्वेन तत्सम्बन्धित्वेनेत्यर्थः । सम्भवीति । अत्र पूरयति-प्रधाने. त्यादि । वृत्तौ 'एतच्चे'त्यादि । बहुरसेषु प्रबन्धेष्वेकस्य रसस्य आपेक्षिकमेतत्प्रकर्ष योगित्वमशक्यप्रतिक्षेपमिति सम्बन्धः । केनाशक्यप्रतिक्षेपमित्यत्रोक्तम्-स्सानामि- त्यादि । मतमेतद्विवृणोति-उपकार्येत्यादि । अन्यथेति । स्वचमत्कारविश्रान्तत्वाभाव