पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८३
तृतीयोद्द्योतः


म्भवात् । यथा-

एकन्तो रुअइ पिमा अण्णन्तो समरतुरणिग्योसो।
णेहेण रणरसेण अ भडस्स दोलाइअं हिअअम् ।।

यथा वा-

कण्ठाच्छित्वाक्षमालावलयमिव करे हारमावर्तयन्ती
कृत्वा पर्यङ्कबन्धं विषधरपतिना मेखलाया गुणेन ।

मिथ्यामन्त्राभिजापस्फुरदधरपुटव्यञ्जिताव्यक्तहासा
देवी सन्ध्याभ्यसूयाहसितपशुपतिस्तत्र दृष्टा तु वोऽव्यात् ।।

इत्यत्र।

 अङ्गिरसविरुद्धानां व्यभिचारिणां प्राचुर्येणानिवेशनम् , निवेशने वा क्षिप्रमेवाङ्गिरसव्यभिचार्यनुवृत्तिरिति द्वितीयः ।


लोचनम्

 इति च्छाया । रोदिति प्रियेत्यतो रत्युत्कर्षः। समरतूर्येति भटस्येति चोत्साहो- त्कर्षः। दोलायितमिति तयोरन्यूनाधिकतया साम्यमुक्तम् । एतच्च मुक्तकविषयमेव भवति न तु प्रबन्धविषयमिति केचिदाहुस्तच्चासत् ; आधिकारिकेष्वितिवृत्तेषु त्रिवर्ग फलसमप्राधान्यस्य सम्भवात् । तथाहि-रत्नावल्यां सचिवायत्तसिद्धित्वाभिप्रायेण पृथिवीराज्यलाभ आधिकारिकं फलं कन्यारत्नलाभः प्रासङ्गिकं फलं, नायकाभिप्रायेण तु विपर्यय इति स्थिते मन्त्रिबुद्धौ नायकबुद्धौ च स्वाम्यमात्यबुद्धयेकत्वात्फलमिति नीत्या एकीक्रियमाणायां समप्राधान्यमेव पर्यवस्यति । यथोक्तम्-'कवेः प्रयत्नान्ने. तृणां युक्तानाम्' इत्मलमवान्तरेण बहुना ।

 एवं प्रथमं प्रकारं निरूप्य द्वितीयमाह-अङ्गीति। अनिवेशनमिति । अङ्गभूते

बालप्रिया

प्रियाकर्तृकरोदनरूपानुभावोक्त्येत्यर्थः । रत्युत्कर्षं इति । उक्त इति विपरिणामेन सम्बन्धः। उक्तः व्यञ्जितः। तयोरिति । रत्युत्कर्षस्य उत्साहोत्कर्षस्य चेत्यर्थः । साम्यमुक्तमिति । अत्र प्रकृतो रसो वोरः भटस्येत्युक्तिबलाद्गम्यः समप्राधान्येन वर्णितस्तदविरोधी शृङ्गारः, कण्ठादित्यादौ तु प्रकृतो रसो विप्रलम्भः तदविरोधी हास्यस्समप्राधान्येन दर्शितः । एतदिति । द्वयोरुत्कर्षसाम्यमित्यर्थः । मुक्तकविष- यमेवेति । मुक्तके एवेत्यर्थः । त्रिवर्गति । त्रिवर्गरूपं यत् फलं तस्य समप्राधान्यं यत्तस्येत्यर्थः । समप्राधान्यमेवेति । वीरशृङ्गारयोरिति शेषः ।

 कुत्रानिवेशनमित्यतः पूरयति-अङ्गभूत इति। असाविति । अङ्गभूतो रस इत्यर्थः ।