पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८२
सटीकलोचनोपेतध्वन्यालोके


शृङ्गारयोर्वा इत्याशयेदमुच्यते-

अविरोधी विरोधी वा रसोऽगिनि रसान्तरे ।
परिपोषं न नेतव्यस्तथा स्यादविरोधिता ।। २४ ।।

 अङ्गिनि रसान्तरे शृङ्गारादौ प्रबन्धव्यङ्गये सति अविरोधी विरोधी वा रसः परिपोषं न नेतव्यः। तत्राविरोधिनो रसस्याङ्गिरसापेक्षयात्यन्तमाधिक्यं न कर्तव्यमित्ययं प्रथमः परिपोषपरिहारः । उत्कर्षसाम्येऽपि तयोर्विरोधास-


लोचनम्

 अविरोधी विरोधी वेति । वाग्रहणस्यायमभिप्रायः-अङ्गिरसापेक्षया यस्य रसान्तरस्योत्कर्षों निबध्यते तदा तदविरुद्धोऽपि रसो निबद्धश्चोद्यावहः । अथ तु युक्त्या ङ्गिनि रसेऽङ्गभावतानयेनोपपत्तिर्घटते तद्विरुद्धोऽपि रसो वक्ष्यमाणेन विषयभेदादियोज- नेनोपनिबध्यमानो न दोषावह इति विरोधाविरोधावकिञ्चित्करौ । विनिवेशनप्रकार एव त्ववधातव्यमिति । अङ्गिनीति सप्तम्यनादरे । अङ्गिनं रसविशेषमनादृत्य न्यकृ. त्याङ्गभूतो न पोषयितव्य इत्यर्थः । अविरोधितेति । निर्दोषतेत्यर्थः । परिपोषपरि- हारे त्रीन् प्रकारानाह-तत्रेत्यादिना तृतीय इत्यन्तेन । ननु न्यूनत्वं कर्तव्यमिति वाच्ये आधिक्यस्य का सम्भावना येनोक्तमाधिक्यं न कर्तव्यमित्याशङ्कयाह-उत्क. र्षसाम्य इति ।

एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोषः ।
स्नेहेन रणरसेन च भटस्य दोलायितं हृदयम् ॥

बालप्रिया

 अयमिति । वक्ष्यमाण इत्यर्थः । अपेक्षयेत्यस्य उत्कर्ष इत्यनेन सम्बन्धः । तद्विरुद्धोऽपीति । अङ्गिरसाविरुद्धोऽपीत्यर्थः । अङ्गेति । अङ्गत्वप्रापणेनेत्यर्थः । तदिति । तर्हि इत्यर्थः । अङ्गिनीति इति प्रतीकधारणम् । सप्तमीति । अङ्गिनि रसान्तरे इत्यत्र सप्तमीत्यर्थः । अनादर इति । “षष्टी चानादर" इति सूत्रानुशिष्ठा सप्तमीत्यर्थः । रसान्तरपदविवरणम्-रसविशेषमिति । अनादृत्यैत्यस्यैव विवरणम्- न्यक्कृत्येति । इति वाच्य इति । तत्राविरोधिनो रसस्याङ्गिरसापेक्षया न्यूनत्वं कर्त. व्यमिति वक्तव्ये सतीत्यर्थः । वृत्तौ 'तयोरिति । अङ्गिनो रसस्य तदविरोधिनो रसा- न्तरस्य चेत्यर्थः। कत इति । एकतः एकस्मिन् देशे। मन्यतः अन्यस्मिन् देशे। डोलायितं सन्देहाकुलम् ।

 'कण्ठादिति कण्ठाच्छित्वा । हारं कण्ठादुदृत्य । मेखलाया गुणेनैव विषधरपति नेति रूपकम्। 'सन्ध्येति । सन्ध्याया नायिकात्वं गम्यते । तस्यां या अभ्यसूया तया हेतुना हसितः पशुपतिः सन्ध्यां सेवमानः परमेश्वरो यया सा । हृष्टा सन्तुष्टा । लोकोऽयं प्रक्षिप्तः । उत्कर्षसाम्यं विवृणोति लोचने-रोदितीत्यादि । इत्यत इति ।