पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८१
तृतीयोद्द्योतः


हास्ययो रौद्रश्रृङ्गारयोर्वीराद्भुतयोरिरौद्रयो रौद्रकरुणयोः शृङ्गाराद्भुत- योर्वा तत्र भवत्वङ्गाङ्गिभावः । तेषां तु स कथं भवेद्येषां परस्परं बाध्यबा. धकभावः । यथा-शृङ्गारबीभत्सयोर्वीरभयानकयोः शान्तरौद्रयोः शान्त.


लोचनम्

तैरिति रौद्रप्रभृतिभिः रक्षोदानवोद्धतमनुष्यरित्यर्थः । केवलं नायिकाविषयमौग्य तत्र परिहर्तव्यम् । असम्भाव्यपृथिवीसम्मार्जनादिजनितविस्मयतया तु वीराद्भूत- योः समावेशः । यथाह मुनिः-'वीरस्य चैव यत्कर्म सोऽद्भुतः' इति । वीररौद्रयोर्धीरोद्धते भीमसेनादौ समावेशः क्रोधोत्साहयोरविरोधात् । रौद्रकरुणयोरपि मुनिनैवोक्तः-

'रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः' इति ।

 शृङ्गाराद्भुतयोरिति । यथा रत्नावल्यामैन्द्रजालिकदर्शने । शृङ्गारबीभत्स- योरिति । ययाहि परस्परोन्मूलनात्मकतयैवोद्भवस्तत्र कोSङ्गाङ्गिभावः आलम्बननिम- ग्नरूपतया च रतिरुत्तिष्ठति ततः पलायमानरूपतया जुगुप्सेति समानाश्रयत्वेन तयोरन्यो. न्यसंस्कारोन्मूलनत्वम् । भयोत्साहावप्येवमेव विरुद्धौ वाच्यौ । शान्तस्यापि तत्त्वज्ञा- नसमुत्थितसमस्तसंसारविषयनिर्वेदप्राणत्वेन सर्वतो निरीहस्वभावस्य विषयासक्तिजीवि. ताभ्यां रतिक्रोधाभ्यां विरोध एव ॥ २३ ॥

बालप्रिया

दनेनेति । समधिकरसोत्पादनेनेति च पाठः । श्रृङ्गाररसनाया आधिक्योत्पादनेनेत्य- र्थः । तथात्वं पुरुषार्थत्वम् । तेन शृङ्गारेण । उक्तमिति । मुनिनेति शेषः । विशेष- माह-केवलमिति । असम्भाव्येत्यादि । वीरस्य ह्यसम्भाव्यवस्तुलाभेन विस्मयो भवति । उक्त इति । अविरोध इति शेषः। अत्रैकालम्बनकत्वेनाविरोधो बोध्यः । रौद्रकरुणयोर्भिन्नाश्रयकत्वस्यैव सम्भवात् । 'शृङ्गारामृतयोरपीति अविरोध इति शेषः । बाध्य बाधकभावमुक्तं विवृणोति-ययार्हीत्यादि । ययोरिति । शृङ्गारबीभत्सा- द्योरित्यर्थः। तत्र तयोः । उक्तार्थे हेतुं दर्शयति-आलम्बनेत्यादि । उत्तिष्ठति प्रादुर्भवति । तत इति । आलम्बनादित्यर्थः । जुगुप्सेति । उत्तिष्ठतीत्यनुषङ्गः । इतीति हेतौ । समनाश्रयत्वेनेति । एकालम्बनकत्वेनैकाधिकरणकत्वेन चेत्य र्थः। तयोरिति । रतिजुगुप्सयोरित्यर्थः । अन्योन्येति । अन्योन्यस्य यः संस्कारः, तदुन्मूलनत्वं तद्विनाशकारित्वमित्यर्थः । एवमेवेति । एकाश्रयत्वे. नेत्यर्थः ॥ २३ ॥


 १. भरतना. २. भरत,