पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८०
सटीकलोचनोपेतध्वन्यालोके


 सन्ध्यादिमयस्य प्रबन्धशरीरस्य यथा कार्यमेकमनुयायि व्यापकं कल्प्यते न च तत्कार्यान्तरैर्न सङ्कीर्यते, न च तैः सङ्कीर्यमाणस्यापि तस्य प्राधान्यमपचीयते, तथैव रसस्याप्येकस्य सन्निवेशे क्रियमाणे विरोधो न कश्चित् । प्रत्युत प्रत्युदितविवेकानामनुसन्धानवतां सचेतसां तथाविधे विषये प्रह्लादातिशयः प्रवर्तते ।

 ननु येषां रसानां परस्पराविरोधः यथा-वीरशृङ्गारयोः शृङ्गार-


लोचनम्

बीजात्प्रभृति प्रयोजनानां विच्छेदे यदविच्छेदकारणं यावत्समाप्तिबन्धं स तु बिन्दुः' इति बिन्दुरूपयार्थप्रकृत्या निर्वहणपर्यन्तं व्याप्नोति तदाह- -अनुयायोति । अनेनबीजं बिन्दुश्चेत्यर्थप्रकृती सङ्गृहीते । कार्यान्तरैरिति । 'आग र्भादाविमर्शाद्वा पताका विनिवर्तते' इति प्रासङ्गिकं यत्पताकालक्षणार्थप्रकृतिनिष्ठं कार्यं यानि च ततोऽप्यून- व्याप्तितया प्रकरीलक्षणानि कार्याणि तैरित्येवं पञ्चानामर्थप्रकृतीनां वाक्यैकवाक्यतया निवेश उक्तः । तथाविध इति । यथा तापसवत्सराजे ।

 एवमनेन श्लोकेनाङ्गाङ्गितायां दृष्टान्तनिरूपणमितिवृत्तबलापतितत्वं च रसाङ्गाङ्गि- भावस्येति द्वयं निरूपितम् । वृत्तिग्रन्थोऽप्युभयाभिप्रायेणैव नेयः । श्रृङ्गारेण वीरस्या- विरोधो युद्धनयपराक्रमादिना कन्यारत्नलाभादौ । हास्यस्य तु स्पष्टमेव तदङ्गत्वम् । हास्यस्य स्वयमपुरुषार्थस्वभावत्वेऽपि समधिकतररञ्जनोत्पादनेन श्रृङ्गारातयैव तथात्वम् । रौद्रस्यापि तेन कथश्चिदविरोधः । यथोक्तम्-'श्रृङ्गारश्च तैः प्रसभं सेव्यते' ।

बालप्रिया

थेत्यनेन सम्बघ्नातीत्यर्थः । असाविति । अङ्गाङ्गिभाव इत्यर्थः । कार्यपदेन योग- व्युत्पत्त्या विवक्षितमर्थं दर्शयन् विवृणोति-स्वल्पमात्रमित्यादि । बीजमित्यस्य व्याप्नोतीत्यनेन सम्बन्धः । अनेनेति । कार्यपदेनेत्यर्थः । कार्यान्तरैरित्यनेन विव क्षितं विवृणोति-मागर्भादित्यादि । ततोऽप्यूनव्याप्तीति । ततः पताकालक्षणा- र्थप्रकृतेः । तैरित्यन्तेन कार्यान्तरित्यस्य विवरणम् । उपसंहरति-इत्येवमित्यादि । उक्त इति । कार्य कार्यान्तरैरित्याभ्यो बोधित इत्यर्थः । तथाविधे विषये इत्यस्योदा- हरणं दर्शयति-यथा तापसेति ।

 सारार्थमाह-एवमित्यादि । अनेनेति । कार्यमित्यादिनेत्यर्थः । अङ्गाङ्गितायां दृष्टान्तनिरूपणं रसाङ्गाङ्गिभावस्य इतिवृत्तबलापतितत्वं चेति द्वयमनेन श्लोकेन निरूपि- तमिति सम्बन्धः। रसानामविरोधमुपपादयति-श्रृङ्गारेणेत्यादि । अविरोध इति। एकाश्रयत्वे विरोधाभाव इत्यर्थः । तदङ्गत्वं श्रृङ्गाराङ्गत्वम् । समधिकरजनोत्पा-


 १.भरतना.,