पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७८
सटीकलोचनोपेतध्वन्यालोके


मुच्यते-

प्रसिद्धेऽपि प्रबन्धानां नानारसनिबन्धने ।
एको रसोऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता ॥ २१ ॥

 प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गिभावेन बहवो रसा उपनिबध्यन्त इत्यत्र प्रसिद्धौ सत्यामपि यः प्रबन्धानां छाया. तिशययोगमिच्छति तेन तेषां रसानामन्यतमः कश्चिद्विवक्षितो रसोऽ. ङ्गित्वेन विनिवेशयितव्य इत्ययं युक्ततरो मार्गः ।

 ननु रसान्तरेषु बहुषु प्राप्तपरिपोषेषु सत्सु कथमेकस्याङ्गिता न विरु: ध्यत इत्याशङ्कयेदमुच्यते-

रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः।
नोपहन्त्यङ्गितां सोऽस्य स्थायित्वेनावभासिनः ॥ २२ ॥

 प्रबन्धेषु प्रथमतरं प्रस्तुतः सन् पुनः पुनरनुसन्धीयमानत्वेन स्थायी यो रसस्तस्य सकलबन्धव्यापिनो रसान्तरैरन्तरालवर्तिमिः समावेशो यः


लोचनम्

प्रसिद्धेऽपीति । भरतमुनिप्रभृतिभिर्निरूपितेऽपीत्यर्थः। तेषामिति प्रबन्धानाम् । महाकाव्यादिष्वित्यादिशब्दः प्रकारे । अनभिनेयान्भेदानाह, द्वितीयस्त्वभिनेयान् । विप्रः कीर्णतयेति। नायकप्रतिनायकपताकाप्रकरीनायकादिनिष्ठतयेत्यर्थः । अनाङ्गिभावेने. त्येकनायकनिष्ठत्वेन । युक्ततर इति । यद्यपि समवकारादौ पर्यायबन्धादौ च नैकस्या- ङ्गित्वं तथापि नायुक्तता तस्याप्येवंविधो यः प्रबन्धः तद्यथा नाटकं महाकाव्यं वा तदुत्कृष्टतरमिति तरशब्दस्यार्थः ॥ २१ ॥

 नन्विति । स्वयं लब्धपरिपोषत्वे कथमङ्गत्वम् ? अलब्धपरिपोषत्वे वा कथं रसत्व- मिति रसस्वमङ्गत्वं चान्योन्यविरुद्धं तेषां चाङ्गत्वायोगे कथमेकस्याङ्गित्वमुक्तमिति भावः। रसान्तरेति । प्रस्तुतस्य समस्तेतिवृत्तव्यापिनस्तत एव विततव्याप्तिकत्वेनाङ्गिभावो.

बालप्रिया

क्रम इत्यनेन तेषामित्यस्य सम्बन्ध इत्यर्थः । प्रसिद्धेऽपीत्येतद्विवृणोति-भरतेत्यादि । वृत्तिग्रन्थं व्याचष्टे-महेत्यादि । 'युक्ततर' इत्यत्र तरवर्थं दर्शयति-यद्यपीत्यादि । तथाऽपि च तस्यापि नायुक्तता इति सम्बन्धः । तस्यापीति । समवकारादेरपीत्यर्थः। एवंविध इति । नानारसकोऽग्निभूतैकरसकश्चेत्यर्थः ॥ २१ ॥

 'नन्वि'त्यादिशङ्काग्रन्थस्य भावमाह-स्वयमित्यादि। लब्धपरिपोषत्वे इति । रसान्तराणामिति शेषः। नन्वङ्गत्वं मास्त्वित्यत्राह तेषां चेत्यादि । वृत्तौ