पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७७
तृतोयोद्योतः


अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाम्यूरुजघनस्पर्शी नीवीवितंसनः करः ।।

 इत्यादौ । तदत्र त्रिपुरयुवतीनां शाम्भवः शराग्निरार्द्रापराधः कामी

यथा व्यवहरति स्म तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येव निर्विरो-

पत्वम् । तस्माद्यथा यथा निरूप्यते तथा तथात्र दोषाभावः । इत्थं च-

क्रामन्त्यः क्षतकोमलाङ्गुलिवलद्रक्तैः सदर्भाः स्थलीः
पादैः पातितयावकैरिव पतद्वाष्पाम्बुधौताननाः ।

भीता भर्तृकरावलम्बितकरास्त्वद्वैरिनाथोऽधुना
दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥

इत्येवमादीनां सर्वेषामेव निर्विरोषत्वमवगन्तव्यम् ।
एवं तावद्रसादीनां विरोधिरसादिभिः समावेशासमावेशयोर्विषयवि.

भागो दर्शितः ।

 इदानीं तेषामेकप्रबन्धविनिवेशने न्याय्यो यः क्रमस्तं प्रतिपादयितु.


लोचनम्

ग्राम्योक्तिरहितयेत्यर्थः । अत्रैव दृष्टान्तमाह-यथा अयमिति । अत्र भूरिश्रवसः समरभुवि निपतितं बाहुं दृष्ट्वा तत्कान्तानामेतदनुशोचनम् । रशनां मेखलां सम्भोगा- वसरेषूर्ध्वं कर्षतीति रसनोत्कर्षी । अमुना विरोधोद्धरणप्रकारेण बहुतरं लक्ष्यमुपपादितं भवतीत्यभिप्रायेणाह-इत्थं चेति । होमाग्निधूमकृतं बाष्पाम्बु यदि वा बन्धु- गृहत्यागदुःखोद्भवम् । भयं कुमारीजनोचितः साध्वसः। एवमियताङ्गभावं प्राप्ताना. मुक्तिरच्छलेति कारिकाभागोपयोगि निरूपितमित्युपसंहरति एवमिति । तावद्ग्रह- णेन वक्तव्यान्तरमप्यस्तीति सूचयति ॥ २० ॥

 तदेवावतारयति-इदानीमित्यादिना । तेषां रसानां क्रम इति योजना ।

बालप्रिया

तदालम्बितं इतिभावं वा उपस्करोतीति भावः । तदाहेति । उक्ताभिप्रायेणाहेत्यर्थः । अग्राम्यतयेत्यस्यैव विवरणम् - विभावेत्यादि । अत्र भूरिश्रवस इत्यादि । श्लो. केऽस्मिन्नायकगतश्रृङ्गारो नायिका गतकरुणस्यामित्यादिकं काव्यप्रदीपोद्योतादौ द्रष्टव्य- म् । अमुनेति । उक्तेनेत्यर्थः । विवाहकाले कथं बाष्पोद्गम इत्यत आह-होमेति । अयमपि श्लोकः काव्यप्रकाशे उदाहृतः । क्षिप्त इत्यादाविवात्रापि सर्वं बोध्यम् ॥२०॥

इदानी तेषामित्यत्र तेषामितिपदं व्याचष्टे-रसानामिति । क्रम इत्यादि ।

 ४८ ध्व