पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७६
सटीकलोचनोपेतध्वन्यालोके


 अथवा वाक्यार्थीभूतस्यापि कस्यचित्करुणरसविषयस्य तादृशेन शृङ्गारवस्तुना भङ्गिविशेषाश्रयेण संयोजनं रसपरिपोषायैव जायते । यतः प्रकृतिमधुराः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थामाविभिः संस्मर्यमा- णैर्विलासैरधिकतरं शोकावेशमुपजनयन्ति । यथा-


लोचनम्

 अधुना पूर्वस्मिन्नेव श्लोके क्षिप्त इत्यादौ प्रकारान्तरेण विरोधं परिहरति-अथ- वेति । अयं चात्र भावः- -पूर्व विप्रलम्भकरुणयोरन्यत्राङ्गभावगमनान्निर्विरोधत्वमु- क्तम् । अधुना तु स विप्रलम्भः करुणस्यैवाङ्गतां प्रतिपन्नः कथं विरोधीति व्यवस्था- प्यते-तथा हि करुणो रसो नामेष्टजनविनिपातादेर्विभावादित्युक्तम् । इष्टता च नाम रमणीयतामूला । ततश्च कामीवार्द्रापराध इत्युत्प्रेक्षयेदमुक्तम् । शांभवशरवह्निचेष्टिताव. लोकने प्राक्तनप्रणयकलवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया शोकविभावतां प्रति- पद्यते । तदाह--भङ्गिविशेषेति । अग्राम्यतया विभावानुभावादिरूपताप्रापणया

बालप्रिया

 अथ वेत्यादिग्रन्थस्यार्थान्तरभ्रमनिवारणाय तद्ग्रन्थमवतारयति-अधुनेत्यादि । अथ वेति इत्यस्य स्थाने अथवेत्यादिना दोषाभाव इत्यन्तेनेति च पाठः । वृत्तौ 'अथवे' त्यादि । 'वाक्यार्थभूतस्येति । वाच्यस्यैत्यर्थः । अपिशब्दः अनन्तरोक्तनीत्या रस- परिपोषणे आपाततो विरोधं द्योतयति 'कस्यचिदिति । विभावादिरूपस्य कस्यचिदि- त्यर्थः । 'करुणरसविषयस्य' करुणाङ्गस्य । 'तादृशेन वाच्यतया तत्तुल्येन । यद्वा-विरो- घिना शृङ्गारवस्तुना शृङ्गाराङ्गेन । उक्तस्यौदाहरणमाह-अयमित्यादि । काव्यप्रका• शेऽप्युदाहृतोऽयं श्लोकः । प्रकृते क्षिप्त इत्यादावुक्तं योजयन्नाह-'तदत्रेत्यादि । 'व्यवहरति स्मेति । करग्रहणादिकमकरोदिति तदर्थः । वृत्तिग्रन्थेन विवक्षिता ‘स्या- स्पष्टत्वाद्भावमाह लोचने-अयश्चात्यादि । अन्यत्र त्रिपुररिपुप्रभावातिशये । अधु- ना तु इत्यस्य इति व्यवस्थाप्यत इत्यनेन सम्बन्धः। कथं विरोधीति । करुणस्य विरोधी नेत्यर्थः। विभावादित्युक्तमिति । मुनिनेति शेषः । रमणीयतामूलेति बहुव्रीहिः । इत्युत्प्रेक्षयेति । इदं चात्रोत्प्रेक्षालङ्कार इति पक्षाभिप्रायेणोक्तम् । इद- मुक्तमिति । वक्ष्यमाणार्थः प्रकाशित इत्यर्थः । शाम्भवेति। शाम्भववह्नेश्चेष्टिता- नामवलोकनेनेत्यर्थः । अवलोकने इत्यपि पाठः, स्मर्यमाण इत्यनेनास्य सम्बन्धः । प्राक्तनेति । प्राक्तनः पूर्वानुभूतः प्रणयकलवृत्तान्तः करप्रगणासहनादिरित्यर्थः । स्मर्यमाण इति । त्रिपुरयुवतिभिरिति शेषः। विध्वस्ततयेति । नष्टतयेत्यर्थः शोकविभावतामित्यस्यानन्तरं प्रकृष्टामिति च क्वचित् पाठः। प्रतिपद्यत इति । तथाचात्र विशिष्टवैशिष्टयन्यायेन विप्रलम्भोपस्कृतः करुणः त्रिपुररिपुप्रभावातिशयं