पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७५
तृतीयोद्द्योतः


प्रत्युत प्रीत्यतिशयनिमित्तता प्रतिपद्यत इत्यतस्तस्य कुण्ठशक्तिकत्वात्त- द्विरोधविधायिनो न कश्चिदोषः तस्माद्वाक्यार्थीभूतस्य रसस्य भावस्य वा विरोधी रसविरोधीति वक्तुं न्याय्यः, न त्वङ्गभूतस्य कस्यचित् ।


लोचनम्

यथोक्तम्-'रौद्रस्य चैव यत्कर्म स ज्ञेयः करुणो रसः' इति । तदाह-प्रीत्यतिश- येति । अत्रोदाहरणम्-

कुरबक कुचाघातक्रीडासुखेन वियुज्यसे
बकुलविटपिन् स्मर्तव्यं ते मुखसवसेवनम् ।
चरणघटनाशून्यो यास्यस्यशोक सशोकता-
मिति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रियः ॥

 भावस्य वेति । तस्मिन् रसे स्थायिनः प्रधानभूतस्य व्यभिचारिणो वा यथा विप्रलम्भशृङ्गार औत्सुक्यस्य ।

बालप्रिया

विवरणम्-चित्तद्रुतिरिति । कुरवकेति । मुखासवसेवनमित्यपि पाठः ।

पादाघातादशोकस्तिलककुरवको वीक्षणालिङ्गनाभ्याम्
स्त्रीणां स्पर्शात्प्रियङ्गुर्विकसति बकुलश्शीधुगण्डूषसेकात् ॥

 इति वचनमत्रानुसन्धेयम् । वृत्तौ 'करुणो रस'इति। निबध्यमान इति शेषः। 'प्रीत्य- तिशयेति । वीररसास्वादेत्यर्थः । तस्येति । करुणस्येत्यर्थः । 'कुण्ठशक्तिकत्वादिति । अन्याङ्गत्वेन शक्तेः कुण्ठीभावादित्यर्थः । न दोष इत्यनेनास्य सम्बन्धः । तद्विरोध. विधायिन' इति तस्येत्यस्य विशेषणम् । वीररसास्वादातिशयविरोधविधायिन इत्यर्थः । अकुण्ठशक्तिकत्वादिति पाठे तस्यैत्यस्य वीरास्वादस्येत्यर्थः । तद्विरोधविधायिन इति पञ्चम्यन्तं करुणादिति शेषः। निगमयति 'तस्मादित्यादि । 'वाक्यार्थीभूतस्येति । प्रधानस्य प्रस्तुतस्येत्यर्थः । रसविरोधीति वक्तुमिति । “विरोधिरसे”त्यादौ विरोधिप- देन वक्तुमित्यर्थः । तथाच वाक्यार्थभूतरसादिविरोधिरससम्बन्धिपरिग्रहो दोष इति भावः । 'न त्वित्यादि । अङ्गभूतस्य कस्यचिद्रसस्य भावस्य वा विरोधी रसविरोधीति वक्तुं न न्याय्य इत्यर्थः । तथाचाङ्गभूतस्य कस्यचिद्विरोधी यो रसः तत्सम्बन्धिपरि. ग्रहो न दोष इति भावः । यथाक्षिप्तेत्यादौ श्रृङ्गारविरोधी यः करुणस्तत्सम्बन्धिपरि- ग्रहः। भावस्य वेत्यत्र भावपदेन स्थायी व्यभिचारी च विवक्षित इत्याह लोचने- तस्मिन्नित्यादि । तस्मिन् रसे प्रकृतरसे । वाक्यार्थभूतस्येत्यस्य विवरणम्- प्रधानभूतस्येति।