पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७४
सटीकलोचनोपेतध्वन्यालोके


एवंविधविरुद्धपदार्थविषयः कथमभिनयः प्रयोक्तव्य इति चेत् ,अनू. द्यमानैवंविधवाच्यविषये या वार्ता सात्रापि भविष्यति । एवं विध्यनुवा- दनयाश्रयेणात्र श्लोके परिहृतस्तावद्विरोधः ।

 किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित्प्रभावातिशयवर्णने तत्प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां न वैक्लव्यमादधाति


लोचनम्

यदि समस्ताभिनयः क्रियते तदा विरुद्धार्थविषयः कथं युगपदभिनयः कर्तुं शक्य इत्या- शयेनाशङ्कमान आह-एवमिति । एतत्परिहरति-अनूद्यमानेति । अनूद्यमा- नमेवंविधं विरुद्धाकारं वाच्यं यत्र तादृशो यो विषयः 'एहि गच्छ पतोत्तिष्ठ' इत्या- दिस्तत्र या वार्ता सात्रापीति ।

 एतदुक्तं भवति–'क्षिप्तो हस्तावलग्न' इत्यादौ प्राधान्येन भीतविप्लुतादिदृष्टद्युपपा. दनक्रमेण प्राकरिणकस्तावदर्थः प्रदर्शयितव्यः । यद्यप्यत्र करुणोऽपि पराङ्गमेव तथापि विप्रलम्भापेक्षया तस्य तावन्निकटं प्राकरणिकत्वं महेश्वरप्रभावं प्रति सोपयोगत्वात् । विप्रलम्भस्य तु कामीवेत्युत्प्रेक्षोपमाबलेनायातस्य दूरत्वात् । एवं च सास्रनेत्रोत्पला- भिरत्यन्तं प्राधान्येन करुणोपयोगाभिनयक्रमेण लेशतस्तु विप्रलम्भस्य करुणेन सादृ. श्यात्सूचनां कृत्वा । कामीवेत्यत्र यद्यपि प्रणयकोपोचितोऽभिनयः कृतस्तथापि ततः प्रतीयमानोऽप्यसौ विप्रलम्भः समनन्तराभिनीयमाने स दहतु दुरितमित्यादौ साटो. पाभिनयसमर्पितो यो भगवत्प्रभावस्तत्राङ्गतायां पर्यवस्यतीति न कश्चिद्विरोधः । एतं विरोधपरिहारमुपसंहरति-एवमिति ।

 विषयान्तरे तु प्रकारान्तरेण विरोधपरिहारमाह-किञ्चेति । परीक्षकाणामिति सामाजिकानां विवेकशालिनाम् । न वैक्लव्यमिति । न तादृशे विषये चित्तद्वृतिरुत्पद्यते करुणास्वादविश्रान्त्यभावात् । किन्तु वीरस्य योऽसौ क्रोधो व्यभिचारितां प्रतिपद्यते तत्फलरूपोऽसौ करुणरसः स्वकारणाभिव्यञ्जनद्वारेण वीरास्वादातिशय एव पर्यवस्यति ।

बालप्रिया

 नटशिक्षार्थं विवृणोति-एतदुक्तमित्यादि । प्रदर्शयितव्यः अभिनेतव्यः । उत्प्रेक्षापमाबलेनेति । उत्प्रेक्षाया उपमाया वा बलेनेत्यर्थः । कृत्वा अभिनय इति सम्बन्धः । शङ्कते-कामीत्यादि । समाधत्ते-तथाऽपीत्यादि । कृत इति । कृति- विषय इत्यर्थः । भवेदिति शेषः ।

 किञ्चेत्यादिग्रन्थमवतारयति-विषयान्तरेऽपीत्यादि । विषयान्तरे स्थलान्तरे कुरवकेत्यादौ । प्रकारान्तरेणेति । पञ्चमेन प्रकारेणेत्यर्थः । आहेति । प्रसङ्गादाहे. त्यर्थः । तादृशे विषय इति । कुरवकेत्याद्युदाहरणादावित्यर्थः । वैक्लव्यमित्यस्य