पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७३
तृतीयोद्द्योतः


तदाक्षिप्तानां रसानां केन वार्यते। यैर्वा साक्षात्काव्यार्थता रसादीनां नाभ्युपगम्यते, तैस्तेषां तन्निमित्तता तावदवश्यमभ्युपगन्तव्या। तथाप्यत्र श्लोके न विरोधः । यस्मादनूद्यमानाङ्गनिमित्तोमयरसवस्तुसहकारिणो विधीयमानांशाद्भावविशेषप्रतीतिरुत्पद्यते ततश्च न कश्चिद्विरोधः । दृश्यते हि विरुद्धोभयसहकारिणः कारणात्कार्यविशेषोत्पत्तिः । विरुद्धफलोत्पादन- हेतुत्वं हि युगपदेकस्य कारणस्य विरुद्धं न तु विरुद्धोभयसहकारित्वम् ।


लोचनम्

स्येति । यदि वा मा भुदनूद्यमानतया विरुद्धयो रसयोः समावेशः, सहकारितया तु भविष्यतीति सर्वथाविरुद्धयोर्युक्तियुक्तोऽङ्गाङ्गिभावो नात्र प्रयासः कश्चिदिति दर्शयति- यैवति । तन्निमित्ततेति । काव्यार्थो विभावादिनिमित्तं येषां रसादीनां ते तथा तेषां भावस्तत्ता। अनूद्यमाना ये हस्तक्षेपादयो रसाङ्गभूता विभावादयस्तन्निमित्तं यदुभयं करुणविप्रलम्भात्मकं रसवस्तु रससजातीयं तत्सहकारि यस्य विधीयमानस्य शाम्भव. शरवह्निजनितदुरितदाहलक्षणस्य तस्माद्भावविशेषेप्रेयोलङ्कारविषये भगवत्प्रभावातिशय- लक्षणे प्रतीतिरिति सङ्गतिः । विरुद्धं यदुभयं वारितेजोगतं शीतोष्णं तत्सहकारि यस्य तण्डलादेः कारणस्य तस्मात्कार्यविशेषस्य कोमलभक्तकरणलक्षणस्योत्पत्तिर्दृश्यते । सर्वत्र हीत्थमेव कार्यकारणभावो बीजाङ्कुरादौ नान्यथा ।

 ननु विरोधस्तहि सर्वत्राकिञ्चित्करः स्यादित्याशङ्कयाह-विरुद्धफलेति । तथा चाहुः-'नोपादानं विरुद्धस्य' इति । नन्वभिनेयार्थे काव्ये यदीदृशं वाक्यं भवेत्तदा

बालप्रिया

न्तरद्योतकम् । अन्वित्यादि । अनूद्यमानैर्विभावादिभिः समाक्षिप्तत्वाध्यञ्जितत्वादि- त्यर्थः । तदाह तदभिप्रायेणाह । 'तन्निमित्ततेत्येतद्व्याचष्टे-काव्येत्यादि । अनूद्य- मानाङ्गेत्यादिकं क्षिप्त इत्यादिश्लोके योजयन् व्याचष्टे-अनूद्यमाना इत्यादि । हस्त. क्षेपादयो विभावादय इत्यत्र यथासंख्येनान्वयो न विवक्षितः । हस्तक्षेपस्यानुभावत्वात् अनुभावादय इति वा पाठः । तन्निमित्तमिति । ते निमित्तानि यस्य तदित्यर्थः । रससजातीयमिति । रसात्मकं स्थाय्यात्मकं वेत्यर्थः । यस्य विधीयमानांशस्येत्य- स्यैव विवरणम्-शाम्भवेत्यादि । विधीयमानांशादिति विशेष्यसन्निधानेन यस्य विधीयमानांशस्येति व्याख्यातं, तदेतद्दर्शयितुमाह-तस्मादिति । भावविशेषप्रतीति- रित्येतद्व्याचष्टे-भावेत्यादि । भावविशेषे इत्यस्य विवरणम्-प्रेयोऽलङ्कारविषय इति । स क इत्यत्राह-भगवदित्यादि । सर्वत्रेत्यादि । तेजोजलाद्यात्मकविरुद्धो- भयसहकारिण एव बीजादेरङ्कुरादिकार्योत्पत्तिरिति भावः । नोपादानमिति । नोत्पा. दनमिति पाठेन भाव्यमिति प्रतिभाति ।