पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७२
सटीकलोचनोपेतध्वन्यालोके


 न च रसेषु विध्यनुवादव्यवहारो नास्तीति शक्यं वक्तुम् । तेषा वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य वाच्यस्य च यो विध्यनुवादौ तौ


लोचनम्

दरुणाधिकरणस्थित्या यो वाक्यीय एषां पाश्चात्यः सम्बन्धः सम्भाव्यते स विघटताम् ।

 ननु प्रधानतया यद्वाच्यं तत्र विधिः । अप्रधानत्वेन तु वाच्येऽनुवादः । न च रसस्य वाच्यत्वं त्वयैव सोढमित्याशङ्कमानः परिहरति-न चेति । प्रधानाप्रधानत्व- मात्रकृतौ विध्यनुवादौ, तौ च व्यङ्गयतायामपि भवत एवेति भावः । मुख्यतया च रस एव काव्यवाक्यार्थं इत्युक्तम् । तेनामुख्यतया यत्र सोऽर्थस्तत्रानूद्यमानत्वं रसस्यापि युक्तम् । यदि वानूद्यमानविभावादिसमाक्षिप्तत्वाद्रसस्यानूद्यमानता तदाह-वाक्यार्थ.

बालप्रिया

या गौस्सा अरुणा पिङ्गाक्षीत्यादि । स्पष्टमिदं मीमांसापरिभाषादौ । वाक्यीय इति । वाक्यप्रतिपाद्य इत्यर्थः । एषामित्यादि । य आगच्छति स गच्छतीत्यादिपारह्ष्ठिकान्वय इत्यर्थः । विरुद्धत्वात्स केवलं विघटतामिति सम्बन्धः । वृत्तौ विधिप्रतिषेधयो रिति । गमनागमनाद्योरित्यर्थः । 'अनूद्यमानत्वेनेति । क्रीडाविधाने इति शेषः। तथेत्याद्यु. क्तमेव विवृणोति-श्लोक' इत्यादि । 'विधीयमानत्वमिति । प्राधान्यमित्यर्थः ।

 'न चे'त्याद्यभ्युपगमादित्यन्तं ग्रन्थमवतारयति लोचने-नन्वित्यादि । यद्वा- व्यमिति । यो वाच्यार्थ इत्यर्थः । तत्र विधिरिति । तस्य विधीयमानत्वमित्यर्थः । अनुवाद इति । अनूद्यमानत्वमित्यर्थः । वाच्यार्थस्यैव विधिरनुवादश्चेति भावः । तेषामित्यादिपरिहारग्रन्थस्य भावमाह-प्रधानेत्यादि युक्तमित्यन्तेन । विध्यनु- वादाविति । अर्थस्येति शेषः । व्यङ्गयतायामपि व्यङ्गयत्वे सत्यपि । कुत्रानूद्य- मानत्वं रसस्येत्यत्राह-मुख्यतयेत्यादि । सोऽर्थः व्यङ्ग्यार्थः । यदिवेति पक्षा.


 १. अयमत्र विषयः-ज्योतिष्टोमप्रकरणे 'अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणाति' इति श्रुतम् । अरुणा अरूणगुणविशिष्टा, पिङ्गे अक्षिणी यस्यास्सा गौः पिङ्गाक्षो, एक हायनं यस्यास्सा एकहायनी एकवर्षवयस्का गौः । अत्रारुणादिशब्दत्रय लक्षणया तद्विशिष्टं क्रयमभिदधाति । तस्य चाख्यातवाच्यभावनायां करणत्वेनान्वयः, सोमस्य ( सोमलतायाः ) च भाव्यत्वेन । एवञ्च आरुण्यादियुक्तगोविशिष्टक्रयेण सोम सम्पादयेदिति विषयवाक्यार्थः । मीमांसकानां भावनामुख्यविशेष्यकशाब्दबोधस्या- भिमतत्वात् आरूण्यादीनां प्रथमतो भावनायामेवान्वयः । एकहायन्या यथा तृतीया- श्रुतिबलात् क्रयकरणिकभावनायामन्वयः, तथा 'अरुणये ति तृतीयावलादारुण्यस्यपि तत्रैवान्वयः । एवञ्च साक्षात्क्रयेणान्वितयोरपि द्रव्यगुणयोः पश्चाद्वाक्यप्रमाणेन परस्प- रावच्छेदकत्वेनान्वय इष्यते । तथा सति आरण्यविशिष्टैकहायन्या क्रीणातीत्यर्थः पर्यं. वस्यति इति ।