पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७१
तृतीयोद्द्योतः


यथा-

एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवमाशाग्रहास्तैः क्रीडन्ति घनिनोऽर्थिभिः ॥

 इत्यादौ । अत्र हि विधिप्रतिषेधयोरनूद्यमानत्वेन समावेशे न विरो- धस्तथेहापि भविष्यति । श्लोके ह्यस्मिन्नीर्ष्याविप्रलम्भशृङ्गारकरुणवस्तुनोर्न विधायमानत्वम् । त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वात्तदङ्गत्वेन च तयोर्व्यवस्थानात् ।


लोचनम्

त्यर्थः । क्रीडाङ्गत्वेन ह्यत्र विरुद्धानामर्थानामभिधानमिति राजनिकटव्यवस्थिताततायिद्वयः न्यायेन विरुद्धानामप्यन्यमुखप्रेक्षितापरतन्त्रीकृतानां श्रौतेन क्रमेण स्वात्मपरामर्शेऽप्यवि- श्राम्यताम् , का कथा परस्पररूपचिन्तायां येन विरोधः स्यात् । केवलं विरुद्धत्वा-

बालप्रिया

गृह्णीयुः इति षोडशिग्रहणं विहितम् । पुनश्च "नातिरात्रे षोडशिनं गृह्णाती" त्यनेन तन्निषिद्धञ्चेति यद्यपि ग्रहणाग्रहणयोर्विरुद्धयोर्विधिः, तथाऽपि स विधिः षोडशिनं गृह्णीयान्न गृह्णीयाद्वा इति विकल्पे पर्यवस्यतीत्यर्थः । वृत्तौ-एही' ति। हे अर्थिन् त्वमेहि आगच्छ । “एव मिति । उक्तप्रकारेणेत्यर्थः । 'आशे ति । आशारूपैर्ग्रहैर्ग्रस्तास्तैरित्यर्थः। 'अर्थिभिः' याचकैः धनिनः क्रीडन्तीति सम्बन्धः। अत्र एहीति क्रीडन्ति गच्छेति कीडन्तीत्यादिरीत्या भावाभावरूपयोरपि गमनागम- नाद्योः प्रधानभूतक्रीडायां प्रकारतयाऽन्वयेन तदत्वान्न दुष्टत्वमिति दर्शयन्नाह लोचने- क्रीडाङ्गत्वेनेत्यादि। अत्रेति । एहीत्यादिश्लोक इत्यर्थः । विरूद्धानामर्थाना- मिति । एकदैकत्र विरुद्धयोः गमनागमनयोः पतनोत्थानयोर्वचनमौनयोश्वार्थानामित्यर्थः। इतीति हेतौ। राजेति । राजनिकटव्यवस्थितौ राजाश्रयत्वेन स्थितौ यावाततायिनी मिथो वैरेण वधोद्यतौ पुरुषौ तयोर्द्वयं तन्न्यायेनेत्यर्थः । अन्येति । अन्यमुखप्रेक्षिता अन्यायत्तता तया परतन्त्रीकृतानामुपसर्जनीकृतानामित्यर्थः । श्रौतेन क्रमेण एहि गच्छेत्यादिश्रुतिक्रमेण यः स्वात्मनां परामर्शः प्रतीतिः तस्मिन् सत्यपि । अविश्राम्य- तामिति । स्वात्मनि प्रतीतिविश्रान्तिमलभमानानामित्यर्थः । क्रीडायामङ्गत्वेनान्वया- दिति भावः । परस्पररूपेति । परस्परस्य यद्रूपं स्वभावः तच्चिन्तायां का कथा तच्चिन्ता नोदेत्येवेत्यर्थः । विशेषमाह-केवलमित्यादि । अरुणेति । अरुणाधि- करणन्यायेनेत्यर्थः । सम्भाव्यत इत्यनेनास्य सम्बन्धः। अरुणयेत्यादिविधिवाक्ये कारकाणां भावनान्वयनियमान्मिथोऽनन्वितानामेवारुण्यपिङ्गाक्षीत्वादीनां करणविभ- क्त्यन्तपदार्थानां सोमक्रयणभावनायां करणत्वेनादावन्वयः, पश्चात् परस्परान्वयः-