पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७०
सटीकलोचनोपेतध्वन्यालोके


दुष्टत्वं वानुवादे ।


लोचनम्

यथा। विधिशब्देनात्रैकदा प्राधान्यमुच्यते । अत एवातिरात्रे षोडशिनं गृह्णन्ति न गृह्ण- न्तीति विरुद्धविधिविकल्पपर्यवसायीति वाक्यविदः । अनुवाद इति । अन्याङ्गतायामि-

बालप्रिया

कमाह-अतएवेत्यादि । अतएव विरुद्धायोरेकत्रैकदा प्राधान्यस्य दुष्टत्वादेव । अति- रात्र इत्यादि । अतिरात्रे अतिरात्रयागे षोडशिनं सोमपात्रविशेषम् गृह्णन्ति


 १. अयमत्र विषयविवेकः-अस्ति ज्योतिष्टोमसंज्ञकः क्रतुस्स्वर्गोद्देशेन विहितः 'ज्यो. तिष्टोमेन स्ववर्गकामो यजेत' इति । अत्र सन्ति चतस्नस्संस्था:-अग्निष्टोमः, उक्थ्यः, षो- डशी, अतिरात्रश्चेति । संस्था नाम क्रतुप्रयोगवृत्तिस्तोत्रोपरमः । स्तोत्रं नामोद्गातृगणप्रवि- ष्टैरूद्गातृप्रस्तोतृप्रतिहर्तृभिः क्रियमाणं प्रगीतमन्त्रसाध्य गुणिनिष्ठगुणाभिधानम्। एवञ्च येन स्तोत्रेण ऋतुप्रयोगः परिसमाप्यते तेनैव सा संस्था व्यवह्रियते । तथा हि-ज्योतिष्टोमे द्वादश स्तोत्राणि वर्तन्ते-बहिष्पवमानम् , चत्वार्याज्यस्तोत्राणि, माध्यन्दिनपवमा- नम् , चत्वारि पृष्टस्तोत्राणि, आर्भवपवमानम् , अग्निष्टोमस्तोत्रश्चेति । अग्निष्टोमस्तो- त्रानन्तरं स्तोत्रान्तरमकृत्वा तेनैव चेज्ज्योतिष्टोमस्समाप्यते, तदा सोऽग्निष्टोमसं. स्थाको ज्योतिष्टोम इति व्यपदिश्यते । एवमेकदा ज्योतिष्टोमप्रयोगं परिसमाप्य प्रयो. गान्तरे पूर्वोक्तानि द्वादशापि स्तोत्राणि कृत्वाऽनन्तरमुक्थ्यस्तोत्रञ्चेत्क्रियेत, तदा स उक्थ्यसंस्थाको ज्योतिष्टोम इति व्यवह्रियते । एवमुक्थ्यस्तोत्रानन्तरं षोडशिस्तोत्रं कृत्वा क्रतुश्चेत्समाप्यते, तदा सः षोडशिसंस्थाक इत्युच्यते । षोडशिस्तोत्रानन्तरं रात्रिपर्यायाः स्तोत्रविशेषास्त्रयश्चेत्कियन्ते तदा सोऽतिरात्रसंस्थाको ज्योतिष्टोमो भवति अत्राग्निष्टोमोक्थ्यषोडश्यतिरात्रपदानां प्रचुरप्रयोगात् तत्तसंस्थास्वेव शक्तिः, तादृश- संस्थावति ज्योतिष्टोमे निरूढलक्षणा, तद्वति क्रत्वन्तरे च साम्प्रतिकी लक्षणा, ग्रहणे स्तोत्रे च गौणीति मीमांसकमर्यादा ।

 ज्योतिष्टोमप्रकरणे च 'नातिरात्रे षोडशिनं गृह्णाति 'अतिरात्रे षोडशिनं गृह्णाति' इति निषेधकं विधायकञ्च वाक्यं श्रुतम् । अतिरात्रे अतिरात्रसंस्थाके ज्योतिष्टोमे षोडशिनं तत्संज्ञकं ग्रहं न गृह्णीयात् , गृहीयादिति च तयोरर्थः । अत्र 'अतिरात्रे षोडशिनं गृह्णाति' इति विधिना विहितं षोडशिग्रहणं 'नातिरात्रे षोडशिनं गृण्हाति' इति निषे. धकवाक्येन प्रतिबध्यत इति विहितप्रतिषिद्धत्वाद्विकल्पः स्वीक्रियते । अत्र प्रतिषेधे सत्यपि प्रतिषिध्यमानस्य नानर्थहेतुत्वम् तस्य विकल्पापादकत्वात् । तत्रैव प्रतिषिध्य- मानस्यानर्थहेतुत्वं, यत्र च प्रतिषेधस्य न विकल्पापादकत्वम् । यथा-'न कलञ्जं भक्षयेत्' इत्यत्र प्रकृते च शास्त्रविहितस्यैव शास्त्रान्तरेण प्रतिषिद्धत्वात, उभयोस्तुल्य- बलत्वाच विकल्पस्स्वीक्रियत इति । २. वाक्य विदः मौमांसका इत्यर्थः ।