पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६९
तृतीयोद्द्योतः


चाङ्गभावप्राप्तिरन्या यदाधिकारिकत्वात्प्रधान एकस्मिन्वाक्यार्थै रसयो । र्भावयोर्वा परस्परविरोधिनोर्द्योरङ्गभावगमनं तस्यामपि न दोषः । यथोक्तं 'क्षिप्तो हस्तावलग्नः' इत्यादौ । कथं तत्राविरोध इति चेत् , द्वयो. रपि तयोरन्यपरत्वेन व्यवस्थानात् अन्यपरत्वेऽपि विरोधिनोः । कथं विरोधनिवृत्तिरिति चेत् , उच्यते-विधौ विरुद्धसमावेशस्य


लोचनम्

तिनिर्वणैषिता' इत्यत्रान्तरे । अन्येति । चतुर्थोऽयं प्रकार इत्यर्थः । पूर्व हि विरो. धिनः प्रस्तुतरसान्तरेऽङ्गतोक्ता, अधुना तु द्वयोर्विरोधिनोर्वस्त्वन्तरेऽङ्गभाव इति शेषः । क्षिप्त इति । व्याख्यातमेतत् 'प्रधानेऽन्यत्र वाक्यार्थे' इत्यत्र । नन्वन्यपरत्वेऽपि स्वभावो न निवर्तते, स्वभावकृत एव च विरोध इत्यभिप्रायेणाह-अन्यपरत्वेऽपी- ति । विरोधिनोरिति । तत्स्वभावयोरिति हेतुत्वाभिप्रायेण विशेषणम् । उच्यत इति । अयं भावः-सामग्रीविशेषपतितत्वेन भावानां विरोधाविरोधौ न स्वभावमात्रनि- बन्धनौ शीतोष्णयोरपि विरोधाभावात् । विधाविति । तदेव कुरु मा कारिति

बालप्रिया

चान्या अङ्गभावप्राप्तिरिति सम्बन्धः । 'तस्यामपोति । तथाविधानभावप्राप्तावपी- त्यर्थः । अन्येत्यस्य विवरणं लोचने-चतुर्थ इति । पूर्वोक्ताद्विशेषं दर्शयति- पूर्वमित्यादि । विरोधिन इति । विरोधिरसाङ्गस्येत्यर्थः । रसान्तरे रसविशेषे । वस्त्वन्तर इति । प्रस्तुते इत्यनुषज्यते । अन्यपरत्वेऽपीति । अन्याङ्गत्वेऽपी- त्यर्थः । आहेति । पृच्छतीत्यर्थः। विशेषणमिति । अनुषज्यमानयोर्द्वयोरित्यस्य विशेषणमित्यर्थः । अयं भावः विधावित्यादिग्रन्थस्यायं भावार्थः । क इत्यत्राह- सामग्रीत्यादि । अयमर्थः-पदार्थाना मध्ये कस्यचित्केनचित्सह विरोधश्चाविरोधश्च स्वभावमात्रकृतौ न, किन्तु सामग्रीविशेषानुप्रवेशेनापि सम्भवतः अत्र तद्विरोधो नाम तदसामानाधिकरण्यं तदुत्पत्तिप्रतिबन्धश्च घटत्वादीनां पटत्वादिभिश्शीतस्पर्शादीनामु- ष्णस्पर्शादिभिश्च सहासामानाधिकरण्यरूपो विरोधः स्वभावकृतः। एवं तेषां द्रव्यत्वा- दिभिः रूपादिगुणैश्च सह सामानाधिकरण्यरूपाविरोधश्च बोध्यः। शीतस्पर्शासौरभग- न्धादीनां स्वाश्रयारब्धद्रव्ये उष्णस्पर्शासौरभगन्धाद्युत्पत्तिप्रतिबन्धरूपस्तद्विरोधस्सामग्री- विशेषानुप्रवेशकृतः, एवं शीतोष्णस्पर्शयोरविरोधः कोमलभक्तोत्पत्तिसामग्रीविशेषानुप्रवे- शकृतो बोध्यः । विधिस्थले प्रवृत्तिसामग्री निषेधस्थले निवृत्तिसामग्रीं चादाय तदनुप्रवे- शेन विरोधाविरोधौ ग्राह्याविति। शीतोष्णयोरिति। शीतोष्णस्पर्शयोरित्यर्थः । विरो- धाभावादिति । सामग्रीविशेषानुप्रवेशेनेति शेषः। विधावित्यदेर्दृष्टान्तमाह-तदेवे- त्यादि । तदित्यनेनैकं कर्म विवक्षितम् । एकदेति शेषः । इति यथेति । इति विधौ- दुष्टत्वं यथा तथेत्यर्थः। करणाकरणयोरेकेनैकदाऽनुष्ठातुमशक्यत्वादिति भावः। उपष्टम्भ-

 ४७ध्व०