पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६४
सटीकलोचनोपेतध्वन्यालोके


युक्तमिति यत्नोऽस्माभिरारब्धो न ध्वनिप्रतिपादनमात्राभिनिवेशेन । पुन- श्चायमन्यो रसभङ्गहेतुरवधारणीयो यत्परिपोषं गतस्यापि रसरय पौनः- पुन्येन दीपनम् । उभयुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमाणः परिम्लानकुसुमकल्पः कल्पते । तथा वृत्तेर्व्यवहारस्य यदनौचित्यं तदपि रसभङ्गहेतुरेव । यथा नायकं प्रति नायिकायाः कस्या. श्चिदुचितां भङ्गिमन्तरेण स्वयं सम्भोगाभिलाषकथने । यदि वा वृत्तीनां भरतप्रसिद्धानां कैशिक्यादीनां काव्यालङ्कारान्तरप्रसिद्धानामुपनागरिका- द्यानां वा यदनौचित्यमविषये निबन्धनं तदपि रसभङ्गहेतुः । एवमेषां रसविरोधिनामन्येषां चानया दिशा स्वयमुत्प्रेक्षितानां परिहारे सत्कविभि- रवहितैर्भवितव्यम् । परिकर श्लोकाश्चात्र-

मुख्या व्यापारविषयाः सुकवीनां रसादयः ।
तेषां निबन्धने भाव्ये तैः सदैवाप्रमादिमिः ॥
नीरसस्तु प्रबन्धो यः सोऽपशब्दो महान् कवेः ।
स तेनाकविरेव स्यादन्येनास्मृतलक्षणः ।।


लोचनम्

वर्णनप्राधान्ये सति यदङ्गाङ्गिभावरहितानामविचारितगुणप्रधानभावानां रसभावानां नि- बन्धनं तन्निमित्तानि स्खलितानि सर्वे दोषा इत्यर्थः । न ध्वनिप्रतिपादनमात्रेति । व्यङ्गयोऽर्थो भवतु मा वा भूत् कस्तत्राभिनिवेशः ? काकदन्तपरीक्षाप्रायमेव तत्स्यादिति भावः । वृत्त्यनौचित्यमेव चेति बहुधा व्याचष्टे तदपीत्यनेन चशब्दं कारिकागतं व्याचष्टे । रसभङ्गहेतुरेव इत्यनेनैवकारस्य कारिकागतस्य भिन्नक्रमत्वमुक्तम् । रसस्य विरोधायैवेत्यर्थः । नायकं प्रतीति । नायकस्य हि धीरोदात्तादिभेदभिन्नस्य सर्वथा वीररसानुवेधेन भवितव्यमिति तं प्रति कातरपुरुषोचितमधैर्ययोजनं दुष्टमेव । तेषामिति रसादीनाम् । तैरिति सुकविभिः । सोऽपशब्द इति दुर्यश इत्यर्थः । ननु कालिदासः

बालप्रिया

म्बन्धः । चकारी वाक्यालङ्कारे इत्याशयेन व्याचष्टे-इतिवृत्तेत्यादि । बहुधा व्याचष्ट इति । वृत्तव्यवहारस्येत्यादिना रसभङ्गहेतुरित्यन्तग्रन्थेन त्रेधा व्याचष्ट इत्यर्थः । तदपीत्यनेनेति । तत्पदोत्तरापिशब्देनेत्यर्थः । नायकं प्रति नायिकया स्वयं सम्भोगाभिलाषस्य कथने निबद्धे नायकस्याधैर्ययोजनमापतति, तञ्च दुष्टमिति भाव विवृणोति-नायकस्येत्यादि । भावितव्यमिति । सर्वेषां वीरशब्देन व्यव- हारादिति भावः । कातरपुरुषेति । अधीरपुरुषेत्यर्थः । वृत्तौ 'उचितां भङ्गिमन्तरेणे'