पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६५
तृतीयोद्द्योतः


पूर्व विशृङ्खलगिरः कवयः प्राप्तकीर्तयः ।
तान्समाश्रित्य न त्याज्या नीतिरेषा मनीषिणा ॥
वाल्मीकिव्यासमुख्याश्च ये प्रख्याताः कवीश्वराः ।
तदभिप्रायबाह्योऽयं नास्माभिर्दर्शितो नयः ॥ इति ।


विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् ।
बाध्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला ।। २० ॥

 स्वसामग्या लब्धपरिपोषे तु विवक्षिते रसे विरोधिनां विरोधिरसाङ्गानां बाध्यानामङ्गभावं वा प्राप्तानां सतामुक्तिरदोषा । बाध्यत्वं हि विरोधिनां शक्यामिभवत्वे सति नान्यथा । तथाच तेषामुक्तिः प्रस्तुतरसपरिपोषायैव सम्पद्यते । अङ्गभावं प्राप्तानां च तेषां विरोधित्वमेव निवर्तते । अङ्गभाव- प्राप्तिर्हि तेषां स्वाभाविकी समारोपकृता वा। तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव । यथा विप्रलम्भशृङ्गारे तदङ्गानां


लोचनम्

परिपो गतस्यापि करुणस्य रतिविलासेषु पौनःपुन्येन दीपनमकार्षीत् , तत्कोऽयं रस- विरोधिनां परिहारनिर्बन्ध इत्याशङ्कयाह- -पूर्व इति । न हि वसिष्ठादिभिः कथञ्चिद्यदि स्मृतिमार्गस्त्यक्तस्तद्वयमपि तथा त्यजामः । अचिन्त्यहेतु कत्वादुपरिचरितानामिति भावः । इति शब्देन परिकरश्लोकसमाप्तिं सूचयति ॥ १९ ॥

 | एवं विरोधिनां परिहारे सामान्येनोक्ते प्रतिप्रसवं नियतविषयमाह-विवक्षित इति। बाध्यानामिति । बाध्यत्वाभिप्रायेणाङ्गत्वाभिप्रायेण वेत्यर्थः। अच्छला निर्दोषेत्य- र्थः । बाध्यत्वाभिप्रायं व्याचष्टे-बाध्यत्वं हीति । आङ्गभावाभिप्रायमुभयथा व्याचष्टे,

बालप्रिया

त्यनेन भङ्गया तत्कथनं दुष्यन्तादेर्नायकस्येव नायिकाया अपि न दोष इति दर्शि- तम् । भावार्थमाह-न हीत्यादि । न हि त्यजाम इति सम्बन्धः । वसिष्ठादीनां तत्त्यागेऽपि न दोष इत्याह-अचिन्त्येत्यादि । अचिन्त्यहेतुकत्वादुपरिचरिताना- मिति च पाठः । उपरिचरितानामित्यस्योत्कृष्टचरितानामित्यर्थः ॥ १९ ॥

 'बाध्यानामित्यादिकारिकाभागं व्याचष्टे-बाध्यत्वेत्यादि । उक्तिरित्यनेनास्य सम्बन्धः । उभयथा ब्याचष्ट इति । 'अङ्गभावप्राप्तिही'त्यादिग्रन्थेन द्वेधा व्या- ख्यातवानित्यर्थः । वृत्तौ 'तदङ्गानां व्याध्यादीनामिति । उक्तावविरोध इत्यस्यानुषङ्गः । उपरि वाक्ये उक्तावित्यस्यैवानुषङ्गः । तत्पदेनात्र विप्रलम्भपरामर्शः । व्याध्यादीनां