पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६३
तृतीयोद्द्योतः


एव विच्छित्तिः रसस्याकाण्ड एव च प्रकाशनम् । तत्रानवसरे विरामो रसस्य यथा नायकस्य कस्यचित्स्पृहणीयसमागमया नायिकया कयाचि. त्परां परिपोषपदवीं प्राप्ते शृङ्गारे विदिते च परम्परानुरागे समागमोपाय. चिन्तोचितं व्यवहारमुत्सृज्य स्वतन्त्रतया व्यापारान्तरवर्णने । अनवसरे च प्रकाशनं रसस्य यथा प्रवृत्ते प्रवृत्तविविधवीरसङ्क्षये कल्पसङ्ख्क्षयकल्पे सङ्ग्रामे रामदेवप्रायस्यापि तावन्नायकस्यानुपक्रान्तविप्रलम्भशृङ्गारस्य निमित्तमुचि- तमन्तरेणैव शृङ्गारकथायामवतारवर्णने । न चैवंविधे विषये दैवव्यामो- हितत्वं कथापुरुषस्य परिहारो यतो रसबन्ध एव कवेः प्राधान्येन प्रवृत्ति- निबन्धनं युक्तम् । इतिवृत्तवर्णनं तदुपाय एवेत्युक्तं प्राक् 'आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः' इत्यादिना ।

 अत एव चेतिवृत्तमात्रवर्णनप्राधान्येऽङ्गाङ्गिभावरहितरसभावनिबन्धेन च कवीनामेवंविधानि स्खलितानि भवन्तीति रसादिरूपव्यङ्ग्यतात्पर्यमेवैषां


लोचनम्

ति । व्यापारान्तरेति । यथावत्सराजचरिते चतुर्थेऽङ्के-रत्नावलीनामधेयमप्यगृह्णतो विजयवर्मवृत्तान्तवर्णने । अपि तावदिति शब्दाभ्यां दुर्योधनादेस्तद्वर्णनं दुरापास्तमिति वेणीसंहारे द्वितीयाङ्कमेवोदाहरणत्वेन ध्वनति । अत एव वक्ष्यति-'दैवव्यामोहितत्वमिति। पूर्वं तु सन्ध्यङ्गाभिप्रायेण प्रत्युदाहरणमुक्तम् । कथापुरुषस्येति प्रतिनायकस्येति यावत् ।

 अत एव चेति । यतो रसबन्ध एव मुख्यः कविव्यापारविषयः इतिवृत्तमात्र-

बालप्रिया

रामदेवप्रायस्यापि तावदित्यत्रत्याभ्यां ताम्यामित्यर्थः । ध्वनतीत्यनेनास्य सम्बन्धः । तद्वर्णनमिति । सङ्ग्रामे प्रवृत्ते निमित्तमुचितमन्तरेणैव शृङ्गारवर्णनमित्यर्थः । अत एवेति । द्वितीयाङ्कस्य उदाहरणत्वेन ध्वननादेवेत्यर्थः । दैवव्यामोहितत्वमिति । दैवेन व्यामोहितः कृत्याकृत्यविवेकराहित्यं प्रापितस्तत्वमित्यर्थः । वेणीसंहारे दुर्योध. नस्य तद्गम्यत इति भावः। यथा वेणीसंहारे इति पूर्वमुक्तमन्याभिप्रायेणेति स्मार- यति-पूर्वमित्यादि । कथापुरुषस्यैत्यनेन विवक्षितमाह-प्रतिनायकस्येति । न तु प्रधाननायकस्येत्यर्थः । तस्य तथात्वेनौचित्यापातादिति भावः । वृत्तौ 'रसबन्ध' इति प्रथमान्तं रसानुकूलशब्दार्थनिबन्ध इत्यर्थः । प्रवृत्तिनिबन्धनमिति । प्रवृत्ति- विषय इत्यर्थः । यद्वा रसबन्धे इति सप्तम्यन्तम् । 'प्रवृत्तिनिबन्धनं' प्रवृत्तेः सम्बन्धो विषयतेत्यर्थः । 'अतएवेत्यस्यारब्ध इत्यनेन सम्बन्धः ।

 लोचने व्याचष्टे-यत इत्यादि । वृत्तौ प्राधान्ये सति य िबन्धनं तस्मिन्निति सक