पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६२
सटीकलोचनोपेतध्वन्यालोके


 अयं चान्यो रसभङ्गहेतुर्यत्प्रस्तुतरसापेक्षया वस्तुनोऽन्यस्य कथ- ञ्चिदन्वितस्यापि विस्तरेण कथनम् | यथा विप्रलम्भशृङ्गारे नायकस्य कस्यचिद्वर्णयितुमुपक्रान्ते कवेर्यमकाद्यलङ्कारनिबन्धनरसिकतया महता प्रबन्धेन पर्वतादिवर्णने । अयं चापरो रसभङ्गहेतुरवगन्तव्यो यदकाण्ड


लोचनम्

तया तत्परिग्रहोऽसम्भवनीय एव तदनुस्थानप्रसङ्गात् । व्यभिचारितया तु परिप्रहो भवत्येव । अत एव सामान्येन भावग्रहणम् । वैराग्यकथाभिरिति वैराग्यशब्देन निर्वेदः शान्तस्य यः स्थायी स उक्तः। यथा-'प्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुषम्। इत्याद्युपक्रम्यार्थान्तरन्यासो 'न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः' इति । मना- गपि निर्वेदानुप्रवेशे सति रतेर्विच्छेदः । ज्ञातविषयसतत्त्वो हि जीवितसर्वस्वाभिमानं कथं भजेत । न हि ज्ञातशुक्तिकारजततत्त्वस्तदुपादेयधियं भजते ऋते संवृतिमात्रात् । कथाभिरिति बहुवचनं शान्तरसस्य व्यभिचारिणो धृतिं मतिप्रमृतीन् सङ्ग्रह्णाति ।

 नन्वन्यदनुन्मत्तः कथं वर्णयेत् , किमुत विस्तरत इत्याह-कथश्चिदन्वितस्ये.

बालप्रिया

स्यादिग्रन्थं विवृणोति-विरोधिन इत्यादि । तदनुत्थानप्रसङ्गादिति । तस्य स्थायित्वेनोत्थाने प्रसङ्गस्याभावादित्यर्थः । तदुस्थाने प्रकृतस्थायिनो विच्छेदः स्या- दिति भावः । सामान्येनेत्यादि । स्वत एव व्यभिचारिणः व्यभिचारित्वेन स्थायि- नश्च बोधनाय भाव इति सामान्यत उक्तमित्यथः । प्रसाद इति । काव्यप्रकाशेऽ प्युदाहृतोऽयं श्लोकः । “प्रिये शुष्यन्त्यङ्गान्यभृतमिव ते सिञ्चतु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखमिति द्वितीयतृतीयपादौ । हे मुग्धे विवेकरहिते, गतः काल एव हरिणः अस्थिरत्वात् प्रत्येतुं प्रत्यागन्तुम् न प्रभवति स पुनर्नाग- च्छतीत्यर्थः । अत्र शान्तस्य विभावः कालानित्यत्वलक्षणो निबन्धः तत्प्रकाशितो निर्वेदो व्यभिचारी चेत्यतोऽत्र विरोधिरसविभावभावयोः परिग्रहः स च प्रकृतरसप्रति- कूल इत्याह-मनागपीत्यादि । निर्वेदानुवेधे इति च पाठः। विच्छद इति । भवेदिति शेषः । अत्र हेतुमाह-ज्ञातेत्यादि । ज्ञातं विषयाणां सतत्वं दुःखमिश्रित- त्वपरिणामविरसत्वादिना हेयत्वरूपं तत्त्वं येन सः । जीवितसर्वस्वाभिमान- मिति । वनितादौ विषय इति शेषः । भजेतेत्यत्र करोत्विति च पाठः । दृष्टान्तमाह- न हीत्यादि । शुक्तौ भासमानं रजतं शुक्तिकारजतमित्युच्यते, ज्ञातं शुक्तिकारजत- तत्वं येन सः । तदिति। तद्विशेष्यकोपादेयत्वबुद्धिमित्यर्थः । संवृतिमात्रादृत इति । संवृत्त्यैव तत्रोपादेयत्वबुद्धिं भजत इति भावः । संवृतिरविद्या भ्रमरूपा तद्वृत्तिर्वा । वृत्तौ 'कथञ्चिदन्वितस्येति । यया कयापि विधया प्रकृतेन सम्बद्धस्येत्यर्थः ।

 एतद्ग्रन्थमवतारयति-नन्वित्यादि । अपि तावदिति शब्दाभ्यामिति ।