पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६१
तृतीयोद्द्योतः


कानि पुनस्तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानीत्युच्यते-

विरोधिरससम्बन्धिविभावादिपरिग्रहः ।
विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् ॥ १८ ॥
अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनम् ।
परिपोषं गतस्यापि पौनःपुन्येन दीपनम् ।
रसस्य स्थाद्विरोधाय वृत्त्यनौचित्यमेव च ॥ १९ ॥

 प्रस्तुतरसापेक्षया विरोधी यो रसस्तस्य सम्बन्धिनां विभावभावानु- भावानां परिग्रहो रसविरोधहेतुकः सम्भवनीयः । तत्र विरोघिरसविभाव. परिग्रहो यथा शान्तरसविभावेषु तद्विभावतयैव निरूपितेष्वनन्तरमेव शृ- ङ्गारादिविभाववर्णने । विरोधिरसभावपरिग्रहो यथा प्रियं प्रति प्रणयकल. हकुपितासु कामिनीषु वैराग्यकथाभिरनुनये । विरोधिरसानुभावपरिग्रहो यथा प्रणयकुपितायां प्रियायामप्रसीदन्यां नायकस्य कोपावेशविवशस्य रौद्रानुभाववर्णने ।


लोचनम्

जनयति यद्वदपथ्योपयोगः । तदाह-यत्नत इति । 'विभावेत्यादिना श्लोकेन यदुक्तं तद्विरुद्धं विरोधीत्यादिनार्धश्लोकेनाह । इतिवृत्ते त्यादिना इलोकद्वयेन यदुक्तं तद्विरद्धं विस्तरेणेत्यर्धश्लोकेनाह । 'उद्दीपनेत्यर्धश्लोकोक्तस्य विरुद्धं अकाण्ड इत्यर्धश्लोकेन । 'रसस्ये'त्यर्धश्लोकोक्तस्य विरुद्ध परिपोषं गतस्येत्यर्धश्लोकेन । 'अलङ्कृतीनामित्यनेन यदुक्तं तद्विरुद्धमन्यदपि च विरुद्धं वृत्यनौचित्यमित्यनेन । एतत्क्रमेण व्याचष्टे- प्रस्तुतरसापेक्षयेत्यादिना । हास्य शृङ्गारयोर्वीराद्भुतयो रौद्रकरूणयोर्भयानकबीभत्स. योर्न विभावविरोध इत्यभिप्रायेण शान्तशृङ्गारावुपन्यस्तौ, प्रशमरागयोर्विरोधात् । विरोधिनी रसस्य यो भावो व्यभिचारी तस्य परिग्रहः, विरोधिनस्तु यः स्थायी स्थायि-

बालप्रिया

दीति 'शृङ्गारादीति. च निर्देशे बीजमाह-हास्यश्रृङ्गारयारित्यादि । भयानक- बीभत्सयोरित्यस्यानन्तरं "शान्तबीभत्सयो"रिति च क्वचित् ग्रन्थे पाठः । शान्त- शृङ्गारयोर्विरोधे हेतुमाह-प्रशमेति । विरोधादिति । सहानवस्थानादित्यर्थः । प्रतिपत्तर्येकस्मिन् शमे उद्बुद्धे तदव्यवधानेन रागोद्वोधासम्भवादिति भावः । अतः शान्तविभावे वर्णिते तदनन्तरमेव शृङ्गारादिविभाववर्णनं न कायम् । विरोधिरसस्यै-

 ४६ ध्व०