पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६०
सटीकलोचनोपेतध्वन्यालोके


न्तु प्रसाद एवार्थापेक्षायां तेषां विशेषः । अर्थानपेक्षायां त्वनुप्रासादिरेव ।

 एवं रसादीनां व्यञ्जकस्वरूपमभिधाय तेषामेव विरोधिरूपं लक्षयितु- मिदमुपक्रम्यते-

प्रबन्धे मुक्तके वापि रसादीन्वन्द्धुमिच्छता ।
यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥ १७ ॥

 प्रबन्धे मुक्तके वापि रसभावनिबन्धनं प्रत्यादृतमनाः कविर्विरोधिप. रिहारे परं यत्नमादधीत । अन्यथा स्वस्य रसमयः श्लोक एकोऽपि सम्य. ङ्न सम्पद्यते ।


लोचनम्

अनियन्त्रितपुरुषेच्छायत्तो हि समयः कथं नियतः स्यात् । मुख्यं चारुत्वमिति । विशेष इति पूर्वेण सम्बन्धः । अर्थापेक्षायामिति । वाच्यापेक्षायामित्यर्थः । अनु- प्रासादिरेवेति । शब्दान्तरेण सह या रचना तदपेक्षोऽसौ विशेष इत्यर्थः । आदि. ग्रहणाच्छब्दगुणालङ्काराणां सङ्ग्रहः । अत एव रचनया प्रसादेन चारुत्वेन चोपबृंहिता एव शब्दाः काव्ये योज्या इति तात्पर्यम् ॥ १५, १६ ॥

 रसादीनां यद्व्यञ्जकं वर्णपदादिप्रबन्धान्तं तस्य स्वरूपमभिधायेति सम्बन्धः । उपक्रम्यत इति। विरोधिनामपि लक्षणकरणे प्रयोजनमुच्यते शक्यहानत्वं नाम अन• या कारिकया । लक्षणं तु विरोधिरससम्बन्धीत्यादिना भविष्यतीत्यर्थः ॥ १७ ॥

 ननु 'विभावभावानुभावसञ्चारेयौचित्यचारुणः' इति यदुक्तं तत एव व्यतिरेकमुखे. नैतदप्यवर्गस्यते । मैवम् ; व्यतिरेकेण हि तदभावमात्रं प्रतीयते न तु तद्विरुद्धम् । तदभावमात्रं च न तथा दूषकं यथा तद्विरुद्धम् । पथ्यानुपयोगो हि न तथा व्याधिं

बालप्रिया

विति । शब्दगतो विशेष इत्यर्थः । अनियन्त्रितेत्यादिना 'पुन रित्यादिग्रन्थस्य भावार्थ उक्तः। अनुप्रासपदार्थं व्याचष्टे-शब्दान्तरेणेत्यादि । फलितमाह-अत एव रचनयेत्यादि । उपबंृहिताः विशिष्टाः ॥ १५, १६ ॥

 भावमाह-विरोधिनामपीत्यादि । शक्यहानत्वं नाम प्रयोजनमनया कारि- कया उच्यत इति सम्बन्धः । विरोधिना लक्षणे ज्ञाते तेषां परिहारः शक्य इति तदेव प्रयोजनमित्यर्थः ॥ १७ ॥

 एतदपीति । विरोधिमा परिहरणमपीत्यर्थः । तदभावमात्रमिति । विभा- वाद्यौचित्यशालिनः कथाशरीरस्य विधिरित्यादिना तदौचित्यविरहिणो विधिर्न कार्य इत्याद्यथमात्रमित्यर्थः। यत्नत इतीति । यत्नत इत्यादिनेत्यर्थः । वृत्तौ 'शान्ता'