पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५९
तृतीयोद्द्योतः


सातव्यम् । कोऽन्यथा तुल्ये वाचकखे शब्दानां चारुत्वविषयो विशेषः स्यात् । अन्य एवासौ सहृदयसंवेद्य इति चेत् , किमिदं सहृदयत्वं नाम ? किं रसभावानपेक्षकाव्याश्रितसमयविशेषाभिज्ञत्वम् , उत रसभावादिमय- काव्यस्वरूपपरिज्ञाननैपुण्यम्। पूर्वस्मिन् पक्षे तथाविधसहृदयव्यवस्थापिता- नां शब्दविशेषाणां चारुत्वनियमो न स्यात् । पुनः समयान्तरेणान्यथापि व्यवस्थापनसम्भवात् । द्वितीयस्मिंस्तु पक्षे रसज्ञतैव सहृदयत्वमिति । तथाविधैः सहृदयैः संवेद्यो रसादिसमर्पणसामर्थ्यमेव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय्येव तेषां मुख्यं चारुत्वम् । वाचकत्वाश्रयाणा-


लोचनम्

कत्वशक्तेर्भूयसा दर्शनात्तदधिवाससुन्दरीभूतमर्थं प्रतिपादयितुं सामर्थ्यमस्ति । तथाहि- 'तटी तारं ताम्यति' इत्यत्र तटशब्दस्य पुंस्त्वनपुंसकत्वे अनादृत्य स्त्रीत्वमेवाश्रितं. सहृदयैः 'स्त्रीति नामापि मधुरं' इति कृत्वा । यथा वास्मदुपाध्यायस्य विद्वत्कविस. हृदयचक्रवर्तिनो भट्टेन्दुराजस्य-

इन्दीवरद्युति यदा बिभृयान्न लक्ष्म
स्युर्विस्मयैकसुहृदोऽस्य यदा विलासाः ।
स्यान्नाम पुण्यपरिणामवशात्तथापि
किं किं कपोलतलकोमलकान्तिरिन्दुः ॥

 अत्र हीन्दीवरलक्ष्मविस्मयसुहृद्विलासनामपरिणामकोमलादयः शब्दाः शृङ्गाराभि. व्यञ्जनदृष्टशक्तयोऽत्र परं सौन्दर्यमावहन्ति । अवश्यं चैतदभ्युपगन्तव्यमित्याह- कोऽन्यथेति । असंवेद्यस्तावदसौ न युक्त इत्याशयेनाह-सहृदयेति । पुनरिति ।

बालप्रिया

नादिशब्दानामित्यादि । तदानीमिति। प्रकृतप्रयोगकाल इत्यथः । शृङ्गारातिरि- क्तवर्णनस्थल इति यावत् । पुंस्त्वनपुंसकत्वे इति । 'तटं त्रिष्वि' त्यनुशासन प्राप्ते ते इत्यर्थः ।

 इन्दीवरेति । पुण्यपरिणामवशादिन्दुः इन्दीवर द्युति लक्ष्य न बिभृयाद्यदा,अस्य विलासाः विस्मयैकसुहृदः स्युः यदा, तथाऽपि कपोलतलकोमलकान्तिः किं किं स्यान्ना- मेति सम्बन्धः । यदेति यदीत्यर्थे । कपोलेति । सुन्दरीकपोलतल इव कोमलकान्ति- रित्यर्थः । केरीकपोलेति पाठे केरीशब्दः स्त्रीविशेषवाची बोध्यः । किं किं स्यान्ना- मेति । नैव स्यादित्यर्थः । अत्रेति । चन्द्रं विलोक्य मध्यस्थस्य कस्यचिद्रसिकस्य वचन इत्यर्थः । 'अन्य' इत्यादिशङ्काग्रन्थमवतारयति-प्रसंवेद्य इत्यादि । असा-