पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५८
सटीकलोचनोपेतध्वन्यालोके


सहृदयैरन्येऽपि व्यञ्जकविशेषाः स्वयमुत्प्रेक्षणीयाः । एतच्च सर्वं पदवाक्य- रचनाद्योतनोक्त्यैव गतार्थमपि वैचित्र्येण व्युत्पत्तये पुनरुक्तम् ।

 ननु चार्थसामर्थ्याक्षेप्या रसादय इत्युक्तम् ,तथा च सुबादीना व्यञ्जकत्ववैचिव्यकथनमनन्वितमेव । उक्तमत्र पदानां व्यञ्जकत्वोक्त्यवः सरे । किञ्चार्थविशेषाक्षेप्यत्वेऽपि रसादीनां तेषामर्थविशेषाणां व्यजकश. ब्दाविनाभावित्वाद्यथाप्रदर्शितं व्यञ्जकस्वरूपपरिज्ञानं विभज्योपयुज्यत एव । शब्दविशेषाणां चान्यत्र च चारुत्वं यद्विभागेनोपदर्शितं तदपि तेषां व्यञ्जकत्वेनैवावस्थितमित्यवगन्तव्यम् ।

 यत्रापि तत्सम्प्रति न प्रतिभासते तत्रापि व्यञ्जके रचनान्तरे यदृष्टं सौष्ठवं तेषां प्रवाहपतितानां तदेवाभ्यासादपोद्धृृतानामप्यवभासत इत्यव-


लोचनम्

यद्वक्ष्यत्यन्येऽपीति । अतिविक्षिप्ततया शिष्यबुद्धिसमाधानं न भवेदित्यभिप्रायेण संक्षि- पति-एतच्चेति । वितत्याभिधानेऽपि प्रयोजनं स्मारयति-वैचित्र्येणेति ।

 नन्विति । पूर्वं निर्णीतमप्येतदविस्मरणार्थमधिकाभिधानार्थं चाक्षिप्तम् । उक्त- मत्रेति । न वाचकत्वं ध्वनिव्यवहारोपयोगि येनावाचकस्य व्यञ्जकत्वं न स्यात् इति प्रागेवोक्तम् । ननु न गीतादिवद्रसाभिव्यञ्जकत्वेऽपि शब्दस्य तत्र व्यापारोऽस्त्येव; स च व्यञ्जनात्मैवेति भावः । एतच्चास्माभिः प्रथमोद्ध्योते निर्णीतचरम् । न चेद्मस्माभि. रपूर्वमुक्तमित्याह-शब्दविशेषाणां चेति । अन्यत्रेति । भामहविवरणे । विभा. गेनेति । स्रक्चन्दनादयः शब्दाः शृङ्गारे चारवो बीभत्से त्वचारव इति रसकृत एव विभागः । रसं प्रति च शब्दस्य व्यञ्जकत्वमेवेत्युक्तं प्राक् ।

 यत्रापीति । स्रक्चन्दनादिशब्दानां तदानीं शृङ्गारादिव्यञ्जकत्वाभावेऽपि व्यञ्ज-

बालप्रिया

र्थः । अत्रोपष्टम्भकमाह-यद्वक्ष्यत्यन्येऽपीति । इत्यभिप्रायेण वक्ष्यतीति सम्बन्धः ।

 'नन्वित्याद्याक्षेपस्य फलं दर्शयति-पूर्वमित्यादि । अधिकाभिधानार्थं चाक्षिप्तमिति । वृत्तावनुपदं वक्ष्यमाणस्याधिकांशस्य बोधनार्थं चाक्षेपः कृत इत्यर्थः । वृत्तौ 'अनन्वितामिति । असङ्गतमित्यर्थः । समाधते-'उक्तमित्यादि । 'उक्तमत्रे' ति । अत्र प्रत्युक्तमित्यर्थः । एतद्विवृणोति-न वाचकत्वमित्यादि । येनेति । वा- चकत्वस्य ध्वनिव्यवहारोपयोगित्वेनेत्यर्थः । न तु नेत्यस्य व्यापारोऽस्तीत्यनेनान्व. यः । भावमाह-स्रकचन्दनाय इत्यादि ।

 यत्रापी'त्यादेः 'अवसातव्य’ मित्यन्तग्रन्थस्य तात्पर्यं विवृणोति-स्रक्चन्द-