पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५७
तृतीयोद्द्योतः


 अत्र श्लोके दिवसैरित्यस्मिन् पदे प्रकृत्यंशोऽपि द्योतकः । सर्वनाम्नां च व्यञ्जकत्वं यथानन्तरोक्ते श्लोके । अत्र च सर्वनाम्नामेव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना केत्यादिशब्दप्रयोगो न कृतः । अनया दिशा


लोचनम्

 दिवसार्थो ह्यत्रात्यन्तासम्भाव्यमानतामस्यार्थस्य ध्वनति । सर्वनाम्नां चेति । प्रकृत्यंशस्य चेत्यर्थः। तेन प्रकृत्यंशेन सम्भूय सर्वनामव्यञ्जकं दृश्यत इत्युक्तं भवतीति न पौनरुक्त्यम् । तथा हि तदिति पदं नतभित्तीत्येतत्प्रकृत्यं शसहायं समस्तामङ्गलनि- धानभूतां मूषकाद्याकीर्णतां ध्वनति । तदिति हि केवलमुच्यमाने समुत्कर्षातिशयोऽपि संभाव्येत । न च नतभित्तिशब्देनाप्येते दौर्भाग्यायतनत्व सूचका विशेषा उक्ताः । एवं सा धेनुरित्यादावपि योज्यम् । एवंविधे च विषये स्मरणाकारद्योतकता तच्छब्दस्य । न तु यच्छब्दसंबद्धतेत्युक्तं प्राक् । अत एवात्र तदिदंशब्दादिना स्मृत्यनुभवयोरत्यन्त- विरुद्धविषयतासूचनेनाश्चर्यविभावता योजिता । तदिदंशब्दाद्यभावे तु सर्वमसङ्गतं स्यादिति तदिदमंशयोरेव प्राणत्वं योज्यम् । एतच्च द्विशः सामस्त्यं त्रिशः सामस्त्य- मिति व्यञ्जकमित्युपलक्षणपरम् । तेन लोष्टप्रस्तारन्यायेनानन्तवैचित्र्यमुक्तम् ।

बालप्रिया

 दिवसैरित्याद्युक्तं विवृणोति-दिवसार्थो हीत्यादि । दिवसार्थः दिवसरूपप्र- कृत्यर्थः । अस्यार्थस्य सम्पत्समृद्धिप्राप्तिरूपार्थस्य । ननु प्रकृत्यंशो द्योतक इत्युक्त्यैव सर्वनाम्नामपि व्यञ्जकत्वे प्राप्ते पुनस्तद्वचनं पुनरुक्तमित्यत आह-प्रकृत्यंशस्य चेति । सर्वनाम्नाञ्चेति चकारेणोक्तार्थस्य लाभ इति भावः । एवं व्याख्यानेन लब्धमा- ह-तेनेत्यादि । तदिति पदमिति । 'तद्गेह' मित्यत्र तत्पदमित्यर्थः । ध्वनती.. ति । गेहस्येति शेषः । द्वयोः सम्भूय व्यञ्जकत्वमुक्तमुपपादयति-तदित्यादि । सम्भाव्यतेति । व्यंग्यत्वेनेति शेषः । नतभित्तिशब्देनापीति । केवलेनेति विप. रिणामेनानुषङ्गः । एते विशेषा इति । मूषकाद्याकीर्णतारूपा विशेषा इत्यर्थः । न च उक्ता इति सम्बन्धः । भवेयुरिति शेषः। केवलयोस्तयोरुक्तार्थव्यञ्जकत्वं न भवेदित्यर्थः। ते लोचने इत्यत्र पूर्वमुक्तं स्मारयति–एवंविध इत्यादि । मत एवेति । तच्छब्दानां स्मरणाकारद्योतकत्वादेवेत्यर्थः । स्मृत्यनुभवयोरिति । तच्छब्दग- म्यायाः स्मृतेरिदमेतच्छब्दगम्यस्यानुभवस्य चेत्यर्थः । अत्यन्तेति । अत्यन्तविरुद्धौ विषयौ ययोस्तत्तायास्सूचनेनेत्यर्थः । अत्र गेहस्य नतभित्तित्वमूषकाद्याकीर्णत्वादिधर्म- प्रकारेण स्मृतिः दिवो लब्धावकाश मित्याद्युक्तधर्मप्रकारेणानुभवश्चेति बोध्यम् । तदिदं शब्दादिना योजितेत्यन्वयः। तदिदमंशयोरेवेति । तदित्यादेरिदमित्यादेश्चैवेत्य- र्थः । प्राणत्वमिति । चमत्कारकारित्वमित्यर्थः । ऐतच्चेत्यादि । द्वयोः सम्भूय तथा त्रयाणां सम्भूय व्यञ्जकत्वमित्येतदुपलक्षणमित्यर्थः । उक्तमिति । दर्शितमित्य-