कालस्य व्यञ्जकत्वं यथा-
समविसमणिव्विसेसा समन्तओ मन्दमन्दसंआरा । |
अत्र ह्यचिराद्भविष्यन्ति पन्थान इत्यत्र भविष्यन्तीत्यस्मिन् पदे प्रत्ययः कालविशेषाभिधायी रसपरिपोषहेतुः प्रकाशते । अयं हि गाथार्थः प्रवास- विप्रलम्भश्रृङ्गारविभावतया विभाव्यमानो रसवान् । यथात्र प्रत्ययांशो व्यञ्जकस्तथा कचित्प्रकृत्यंशोऽपि दृश्यते । यथा-
तद्नेहं नतभित्ति मन्दिरमिदं लब्धावगाहं दिवः |
लोचनम्
कालस्येति । तिङन्तपदानुप्रविष्टस्याप्यर्थकलापस्य कारककालसंख्योपग्रहरूपस्य मध्येऽन्वयव्यतिरेकाभ्यां सूक्ष्मदृशा भागगतमपि व्यञ्जकत्वं विचार्यमिति भावः । रस- परिपोषेति । उत्प्रेक्ष्यमाणो वर्षासमयः कम्पकारी किमुत वर्तमान इति ध्वन्यते । अंशांशिकप्रसङ्गादेवाह-यथात्रेति ।
बालप्रिया
वस इति शेषः । ध्वन्यते इत्यस्यानुषङ्गः । भावमाह-तिङन्तेत्यादि । तिङन्तप. दानुप्रविष्टस्य तिङन्तपदयोध्यस्य । कारकेत्यादि । कारकादिचतुष्टयरूपस्यैत्यथः । उपग्रहः, आत्मनेपदपरस्मैपदे तद्योत्यः कर्त्रंभिप्रायक्रियाफलादिरिति यावत् । भा- गगतमिति । कारकादिचतुष्टयैकदेशभूतकालगतमपीत्यर्थः । वृत्ती समेति । समवि- षमाः समाः विषमाश्च देशाः निर्विशेषाः जलप्रवाहनिमग्नतया एकरूपाः येषु ते । 'मनोरथानाम'पीति । किमुत जनानामित्यपिशब्दार्थः । रसपरिपोषहेतुः प्रकाशत' इत्युक्तं विवृणोति-उत्प्रेक्ष्यमाण इत्यादि । उत्प्रेक्ष्यमाणः अचिराद्भावित्वेनोह्य- मानः । कम्पेति । विरहिजनानामिति शेषः । तद्नेहमिति । काव्यप्रकाशेऽप्युदा- ह्तोऽयं श्लोकः । 'इयती भूमि' मिति । समृद्धिसीमामित्यर्थः । भूतिमिति च पाठः ।