निपातानामपि तथैव । यथा- -'अहो बतासि स्पृहणीयवीर्य'
इत्यादौ । यथा वा-
'ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च |
इत्यादौ।
पदपौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित्प्रयुज्यमानं शोभामा- वहति । यथा-
यद्वञ्चनाहितमतिर्बहुचाटुगर्भं |
तत्साधवो न न विदन्ति विदन्ति किन्तु |
इत्यादौ ।
लोचनम्
तथैवेति । रसव्यञ्जकत्वेन द्वित्राणामपि प्रयोगो निर्दोष इत्यर्थः । श्लाघातिशयो 'निर्वेदातिशयश्च अहो बतेति हा धिगिति च ध्वन्यते । प्रसङ्गात्पौनरुक्त्यान्तरमपि व्यञ्जकमित्याह-पदपौनरुक्त्यमिति । पदग्रहणं वाक्यादेरपि यथासंभवमुप- लक्षणम् । विदन्तीति । त एव हि सर्व विदन्ति सुतरामिति ध्वन्यते। वाक्य. पौनरुक्त्यं यथा-'पश्य द्वीपादन्यस्मादपिः इति वचनानन्तरं 'कः संदेहः द्वीपा- दन्यस्मादपि' इत्यनेनेप्सितप्राप्तिरविनितैव ध्वन्यते। 'किं किम् ? स्वस्स्था भवन्ति मयि जीवति' इत्यनेनामर्षातिशयः । 'सर्वक्षितिमृतां नाथ दृष्टा सर्वाङ्गसुन्दरी' इत्युन्मादातिशयः।
बालप्रिया
त्यादौ वर्तमानसामीप्ये भूते लडिति बोध्यम् । लोचने-ध्वन्यत इति । अत्र यथा- संख्यं बोध्यम् । यद्वञ्चनेति । काव्यप्रकाशेऽप्युदाहृतम् । द्वीपादित्यादिरत्नावली- स्थम् । स्वस्था इति । वेणीसंहारस्थमिदम्। अमर्षातिशय इति । वक्तुभीमसेनस्ये- ति शेषः । सर्वत्यादि विक्रमोर्वशीयस्थम् । उन्मादातिशय इति । वक्तुः पुरूर.