पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५४
सटीकलोचनोपेतध्वन्यालोके


 इत्यादौ । द्वित्राणां चोपसीणामेकत्र पदे यः प्रयोगः सोऽपि रस व्यक्त्यनुगुणतयैव निर्दोषः । यथा-'प्रभ्रश्यत्युत्तरीयत्विषि समासि समुद्वी. क्ष्य वीतावृतीन्द्राग्जन्तून्' इत्यादौ । यथा वा-'मनुष्यवृत्त्या समु.' पाचरन्तम्' इत्यादौ ।


लोचनम्

पीति । वैयाकरणादिगृहेषु हि प्राक्प्रयोगस्वातन्यप्रयोगाभावात्षष्ठयाद्यश्रवणाल्लिङ्ग- संख्याविरहाच्च वाचकवैलक्षण्येन द्योतका निपाता इत्युद्धोष्यत एवेति भावः । प्रकर्षेण स्निग्धा इति प्रशब्दः प्रकर्ष द्योतयन्निङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्द- र्यातिशयं ध्वनति । 'तापसस्य फलविशेषविषयोऽभिलाषातिरेको ध्वन्यते' इति त्वसत्; अभिज्ञानशाकुन्तले हि राज्ञ इयमुक्तिर्न तापसस्यैत्यलम् । द्वित्राणामित्यनेनाधिक्यं निरस्यति । सम्यगुच्चैर्विशेषेणेक्षितित्वे भगवतः कृपातिशयोऽभिव्यक्तः ।

मनुष्यवृत्या समुपाचरन्तं स्वबुद्धिसामान्यकृतानुमानाः ।
योगीश्वरैरप्यसुबोधमीश त्वां बोधुमिच्छन्त्यबुधाः स्वतर्कैः ॥

 सम्यग्भूतमुपांशुकृत्वा भा समन्ताच्चरन्तमित्यनेन लोकानुजिघृक्षातिशयस्तत्तदा- चरतः परमेश्वरस्य ध्वनितः ।

बालप्रिया

व्यञ्चेति चशब्दावित्यर्थः । समयश्चेत्यनन्तरं द्वयमिति शेषः । मुहुरित्यादिश्लोकद्वयं शाकुन्तलस्थमस्मदीयशाकुन्तलव्याख्यायां विस्तरेण व्याख्यातम् । प्रसिद्धिं विवृणोति- वैयाकरणादीत्यादि । गृहेष्वित्यस्योद्धोष्यत इत्यनेन सम्बन्धः । वाचकवैलक्षण्ये हे. तुचतुष्टयमाह-प्रागित्यादिप्राक्प्रयोगस्वातन्त्र्यप्रयोगाभावादिति । प्राक्प्रयोगश्च स्वातन्त्र्येण प्रयोगाभावश्च तस्मात् प्राक्प्रयोगादिति व्यस्ततया पाठः साधीयान् उपसर्गसंज्ञाविशिष्टानां प्रसाक्षादित्यादीनां निपातानां धातोः प्रागेव प्रयोगा. दिवैवमादीनां प्रतियोग्यादिवाचकपदं विना स्वतन्त्रतया प्रयोगस्याभावाच्चेत्यर्थः । षष्ठयाद्यश्रवणादिति । यथा चन्द्रस्य चन्द्रेण वा सदृशं मुखमित्यादौ षष्ठयादिकं श्रूयते, तथा चन्द्र इवेत्यादौ षष्ठयादिकं न श्रूयते यतस्तस्मादित्यर्थः । लिङ्गेति । निपातार्थस्येति शेषः । समुद्रीक्ष्ये' त्यैतद्व्याचष्टे-सम्यगित्यादि । भगवतः सूर्यस्य।

 मनुष्येति । कृताभिमानो इति'च पाठः। समुपाचरन्तमित्येतद्विवृणोति- सम्यगित्यादि । 'ये जीवन्तीति । ऊर्जिते गुणिनि दृष्टे सति, ये जीवन्ति स्म उत्कृ. ष्टजीविता अभूवन् । ये प्रीत्या वपुषि न मान्ति स्म, ये प्रस्यन्दिप्रमदाश्रवः पुलकिताः सन्तः प्रनृत्यन्ति स्मेत्याद्यन्वयः । 'साधुद्विषः' असज्जनान् । साधुद्विषामिति पाठे कर्मणश्शेषत्वविवक्षया षष्ठी । 'पुष्यता' पोषयता । ये स्ववपुषीति पाठे तु जीवन्ती. ।