कृतकप्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत एव ।
अवज्ञातिशये कः । समासानां च वृत्त्यौचित्येन विनियोजने । निपातानां
व्यञ्जकत्वं यथा-
अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे । |
इत्यत्र चशब्दः। यथा वा-
मुहुरङ्गुलिसंघृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । |
अत्र तुशब्दः । निपातानां प्रसिद्धमपीह द्योतकत्वं रसापेक्षयोक्त.
मिति द्रष्टव्यम् । उपसर्गाणां व्यञ्जकत्वं यथा-
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरुणामधः |
लोचनम्
सम्बन्ध इत्यनेन सम्बन्धेनेातिशयः प्रच्छन्नकामिन्याभिव्यक्तः। कृतकेति कग्रहणं तद्धितोपलक्षणार्थम् । कृतः कप्रत्ययप्रयोगो येषु काव्यवाक्येषु यथा जायाभीरुकाणामिति । ये ह्यरसज्ञा धर्मपत्नीषु प्रेमपरतन्त्रास्तेभ्यः कोऽन्यो जगति कुत्सितः स्यादिति कप्रत्य- योऽवज्ञातिशयद्योतकः । समासानां चेति । केवलानामेव व्यञ्जकत्वमावेद्यत इति सम्बन्धः ।
चशब्द इति जातावेकवचनम् । द्वौ चशब्दावेवमाहतुः काकतालीयन्यायेन गण्डस्योपरि स्फोट इतिवत्तद्वियोगश्च वर्षासमयश्च सममुपनतौ एतदलं प्राणहरणाय। अत एव रम्यपदेन सुतरामुद्दीपनविभावत्वमुक्तम् । तुशब्द इति । पश्चात्तापसूचकस्सन् तावन्मात्रपरिचुम्बनलाभेनापि कृतकृत्यता स्यादिति ध्वनतीति भावः। प्रसिद्धम-
बालप्रिया
जायासक्तिनिमित्तकेयेत्यर्थः । कग्रहणं तद्धितोपलक्षणार्थमिति । कृतकप्रयो- गेष्वित्यत्र कप्रत्ययग्रहणं कादितद्धितोपलक्षकमित्यर्थः । व्याचष्टे-कृत इत्यादि । केत्यस्य विवरणम्-कप्रत्ययेति । 'अवज्ञातिशये क' इत्येतद्विवृणोति- [-य इत्यादि। प्रेमेत्यत्र कामेति च पाठः । केवलानामेवेति पूरितम् ।
'अयमित्यादिविक्रमोर्वशीयस्थम् । द्वौ चशब्दाविति । 'उपनतश्च' 'भवित-
४५ ध्व०