यथा वा-
मा पन्य रुग्धीओ अवेहि बाला अहोसि अहिरीयो । |
सम्बन्धस्य यथा-
अण्णत वच्च बालअ ह्ला अन्तिं किं मं पुलोएसिए अम् । |
लोचनम्
कृतमिति । अपसर मा वृथा प्रयास कार्षीः देवस्य विपरिवर्तयितुमशक्यत्वादिति तिङन्तो व्यञ्जकः तदनुगृहीतानि पदान्तराण्यपीति भावः ।
मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अहीकः । |
इत्यत्रापेहीति तिङन्तमिदं ध्वनति-त्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि। अस्ति तु सङ्केतस्थानं शून्यगृहं तत्रैवागन्तव्यमिति । 'अन्यत्र व्रज बालक' अप्रौढ बुद्धे स्नान्ती मां कि प्रकर्षेणालोकयस्यैतत् । भो इति सोल्लुण्ठमाह्वानम् । जायाभीरु- काणां सम्बन्धितडमेव न भवति। अत्र जायातो ये भीरवस्तेषामेतत्स्थानमिति दूरापेतः
बालप्रिया
रेति तिङन्तशब्द इत्यर्थः । व्यञ्जक इति । ईर्ष्यादिव्यञ्जक इत्यर्थः। बालकेत्यस्य विवरणम्-अप्रौढेति । णिरिछाओ इत्यस्य छायाविवरणम् । वयं परतन्त्रा इति । शून्यगृहं रक्षणीयं न इति छाया। अस्य व्याख्यानम्-यत इत्यादि । प्रज्ञाशयसी. ति । सम्भोगेच्छामिति शेषः । अत्र श्लोके शृङ्गारः सम्भोगो व्यङ्य पूर्वश्लोके तु विप्रलम्भ इति भेदः । वृत्तौ-'अण्णत्तेति ।
अन्यत्र व्रज बालकस्नान्तीं किं मां प्रलोकयस्यैतत् । |
इतिच्छाया। जलाशये स्नान्ती काञ्चिदनुरागेण पश्यन्तं कञ्चन गृहस्थं प्रति तं कामयमानायास्तस्या उक्तिरियम् । तडमित्यस्म स्थाने तित्थमिति पाठोऽपि दृश्यते । तस्य तीर्थमिति छाया। लोचने-सम्बन्धीति षष्ठ्यर्थकथनम् । एतत्तटं जायाभीरुकाणां सम्बन्धि न भवत्येवेति योजना । उक्तस्यैव विवरणम्-जायात इत्यादि । इति सम्बन्धी दूरापेत इत्यन्वयः। तथाविधानामत्र स्थाने वर्तनरूपः सम्बन्धो दूरापेत. इत्यर्थः । अतो व्रजेति । अनेन सम्बन्धेनेति । षष्ठयर्थसम्बन्धेनेत्यर्थः । ईर्ष्येति ।