पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५१
तृतोयोद्द्योतः


इत्यनेन चात्यन्ततिरस्कृतवाच्यो ध्वनिः प्रकाशितः ॥

 एषां च सुबादीनामेकैकशः समुदितानां च व्यञ्जकत्वं महाकवीनां प्रबन्धेषु प्रायेण दृश्यते । सुबन्तस्य व्यञ्जकत्वं यथा-

तालैः शिञ्जद्वयसुभगैः कान्तया नर्तितो मे
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः॥

तिङ्न्तस्य यथा-

अवसर रोउं चिम णिम्मिआइँ मा पुंस मे हअच्छीइं ।
दंसंणमेत्तुम्भत्तेहिं जहिँ हिअअ तुह ण णाअम् ॥


लोचनम्

स स पूर्वपूर्वापेक्षया पापीयान् निकृष्टत्वात् । यदिवेयसुनन्तोऽयं शब्दो मुनिनैवं प्रयुक्तो णिजन्तो वा । अत्यन्तेति । सोऽपि प्रकारोऽस्यैवाङ्गतामेतीति भावः। सुबन्तस्येति । समुदितत्वे तूदाहरणं दत्तं व्यस्तत्वे चोच्यत इति भावः । तालैरिति बहुवचनमनेक. विधं वैदग्ध्यं ध्वानत् विप्रलम्भोद्दीपकतामेति ।

अपसर रोदितुमेव निर्मिते मा पुंसय हते अक्षिणी मे ।
दर्शनमात्रोन्मत्ताभ्यां याभ्यां तव हृदय मेवरूपं न ज्ञातम् ॥

 उन्मत्तो हि न किञ्चिज्जानातीति न कस्याप्यत्रापराधः देवेनेत्यमेव निर्माणं

बालप्रिया

पृथिव्या इति शेषः । ननु पापीयानित्युक्तार्थः कथं लभ्यत इत्यत्राह-इयसुनन्त इति । नन्वस्मिन् पक्षे पापीयो दिवसेति भाव्यमित्यत आह-मुनिनेत्यादि । आर्षोऽयं प्रयोग इत्यर्थः । अत्र पक्षान्तरमाह-णिजन्तो वेति । मुनिना प्रयुक्त इत्यनुषज्यते णिजन्तेयसुनन्तो मुनिना प्रयुक्तो वेत्यर्थः । लोकान् पापीयसः करोतीत्यर्थे पापीयश्श. ब्दाणिचि कर्तर्यचि टेर्णिचश्च लोपादकारान्तोऽयं पापीयशब्द इति भावः । अनुस्वाने. त्यादिकारिका यथा व्याख्याता, तथा प्रकृते योजयति-सोऽपीत्यादि । सोऽपि प्रकारः अत्यन्ततिरस्कृतवाच्यो ध्वनिः । रसस्येति । प्रकृतस्य शान्तस्येत्यर्थः । दत्तमिति । न्यङ्कार इत्यादिश्लोकेन दर्शितमित्यर्थः । 'तालै' रित्यायुत्तरमेघसन्दे- शस्थम् । वैदग्ध्यमिति । नर्तनविषयकं वैदग्ध्यमित्यर्थः । श्रपसरेत्यादिविरहि. ण्याश्शठं प्रत्युक्तिः । मे हताक्षिणी इति छाया। त्वमपसर अपेहि । कुत इत्यत्राह- रोदितुमित्यादि । रीदितुमेव निर्मिते सृष्टे मे हताक्षिणी कुत्सिते नयने । मा पुंस- य मा अभिवर्धय, मा त्वदभिमुखं विकासयेति यावत् । पुस अभिवर्धन इति चुरादौ । हृदयं तव न ज्ञातमिति छाया । तद्याख्यानम्-तवेत्यादि । एवंरूपमिति । मथि अनासक्तं भावीत्यर्थः । भावार्थमाह-उन्मत्तो हीत्यादि । तिङन्त इति । अपस-