पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५०
सटीकलोचनोपेतध्वन्यालोके


यथा महर्षेर्व्यासस्य-

अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः ।
श्वः श्वः पापीयदिवसा पृथिवी गतयौवना ।।

 मंत्र हि कृत्तद्धितवचनैरलक्ष्यक्रमव्यङ्गथः, 'पृथिवी गतयौवना'

लोचनम्


अतिक्रान्तं न तु कदाचन वर्तमानतामवलम्बमानं सुखं येषु ते काला इति, सर्व एव न तु सुखं प्रति वर्तमानः स कोऽपि काललेश इत्यर्थः। प्रतीपान्युपस्थितानि वृत्तानि प्रत्यावर्त- मानानि तथा दूरभावीन्यपि प्रत्युपस्थितानि निकटतया वर्तमानानि भवन्ति दारुणानि दुःखानि येषु ते। दुःखं बहुप्रकारमेव प्रतिवर्तमानाः सर्वे कालांशा इत्यनेन कालस्य तावन्निर्वेदमभिव्यञ्जयतः शान्तरसव्यञ्जकत्वम् । देशस्याप्याह-पृथिवी श्वः श्वः प्रातः प्रातर्दिनात्दिनं पापीयदिवसाः पापानां सम्बन्धिनः पापिष्टजनस्वामिका दिवसा यस्यां सा तथोक्ता । स्वाभावत एव तावत्कालो दुःखमयः तत्रापि पापिष्ठजनस्वामिकपृथिवीलक्ष- णदेशदौरात्म्याद्विशेषतो दुःखमय इत्यर्थः । तथा हि श्वः श्व इति दिनाद्दिनं गत- यौवना वृद्धस्त्रीवदसंभाव्यमानसंभोगा गतयौवनतया हि यो यो दिवस आगच्छति

बालप्रिया

ज्येति च पाठः । अत्र व्यङ्गयत्वेनोकानामर्थानां रावणगतक्रोधनिर्वेदातिशयव्यञ्जकत्वं बोध्यम् । श्लोक व्याख्याति-अतिक्रान्तमित्यादि । भूतार्थकक्तप्रत्ययेन गम्यमर्थमाह- न त्वित्यादि । काला इति बहुवचनार्थविवरणम्-सर्व एवेति । तेन गम्यमाह- न त्वित्यादि । प्रतीत्यस्य विवरणम्-प्रतीपानीति । प्रतिकूलानीत्यर्थः । वृत्तानि प्रत्यावर्तमानान्युपस्थितानीति सम्बन्धः । गतान्यपि प्रत्यावर्तमानत्वेन ज्ञायमाना नीत्यर्थः । अन्यथापि व्याचष्टे-तथेत्यादि। उक्तमेवार्थ स्फुटमाह-दुःखमि. त्यादि । इत्यनेनेत्यादि । निर्वेदाभिव्यञ्जनद्वारा प्रकृतशान्तरसव्यञ्जकत्वमित्यर्थः । पापोयेति छप्रत्ययान्तमित्याशयेन व्याचष्टे-पापानामित्यादि । पापानां सम्बन्धिन इत्यस्यैव विवरणम्-पापिष्ठेत्यादि । भूमार्थकाजन्तः पापशब्दोऽत्रातिशयितपाप- विशिष्टार्थक इति भावः । पापत्रयतात्पर्यमाह-स्वभावत इत्यादि । पापिष्ठेति । पापिष्ठजनस्वामिकः पृथिवीलक्षणो यो देशस्तस्य दौरात्म्यादित्यर्थः । श्वः इव इत्यस्य गतयौवनेत्यनेनापि सम्बन्ध इत्याह-श्वः श्व इत्यादि । गतयौवनेत्यस्य मुख्यार्थ तस्य प्रकृते बाधाल्लक्षणानिमित्तं तत्सारूप्यं च दर्शयति-वृद्धत्यादि । सम्भोगस्सुखानु. भवः । गतयौवनापदेनात्र सुखानाधायिकेत्यर्थो लक्ष्यते, सुखानुभवस्य सम्भावनाऽपि नास्तीत्यर्थो व्यङ्गयश्चेति भावः । गतयौवनेति पापीयानित्यत्र हेतुगर्भं पापीयपदम. र्थान्तरपरं चेत्यन्यथा व्याचष्टे-गतेत्यादि । यदि वेत्यादौ योज्यम् । गतेति ।