पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४९
तृतीयोद्द्योतः


 अत्र हि श्लोके भूयसा सर्वेषामप्येषां स्फुटमेव व्यञ्जकत्वं दृश्यते । तत्र 'मे यदरयः' इत्यनेन सुप्सम्बन्धवचनानामभिव्यञ्जकत्वम् । 'तत्रा- प्यसौ तापस' इत्यत्र तद्धितनिपातयोः । 'सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः' इत्यत्र तिङ्कारकशक्तीनाम् । 'धिग्विछक्र जितम्' इत्यादौ श्लोकार्धे कृत्तद्धितसमासोपसर्गाणाम् । एवंविधस्य व्यञ्जकभू. यस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्धच्छाया समुन्मीलति । यत्र हि व्यङ्ग्यावभासिनः पदस्यैकस्यैव तावदाविर्भावस्त त्रापि काव्ये कापि बन्धच्छाया किमुत यत्र तेषां बहूनां समवायः । यथावानन्तरोदित श्लोके । अत्र हि रावण इत्यस्मिन् पदेऽर्थान्तरसंक्रमित वाच्येन ध्वनिप्रभेदेनालङ्कृ. तेऽपि पुनरनन्तरोक्तानां व्यञ्जकप्रकाराणामुद्भासनम् । दृश्यन्ते च महात्मना प्रतिभाविशेषभाजां बाहुल्येनैवंविधा बन्धप्रकाराः ।


लोचनम्

देशोऽधिकरणम् निःशेषेण हन्यमानतताया राक्षसवलं च कर्मेति तदिदमसंभाव्यमा नमुपनतमिति पुरुषकारासम्पत्तिर्ध्व॑न्यते तिङ्कारकशक्तिप्रतिपादकैश्च शब्दैः। रावण इति त्वर्थान्तरसङ्क्रमितवाच्यत्वं पूर्वमेव व्याख्यातम् । धिग्धिगिति निपातस्य शक्रं जितवानित्याख्यायिकेयमिति उपपदसमासेन सहकृतः स्वर्गेत्यादिसमासस्य स्वपौरुषा- नुस्मरणं प्रति व्यञ्जकत्वम् । ग्रामटिकेति स्वार्थिकतद्धितप्रयोगस्य स्त्रीप्रत्ययसहितस्या- बहुमानास्पदत्वं प्रति, विलुण्ठन शब्दे विशब्दस्य निर्दयावस्कन्दनं प्रति व्यञ्जक त्वम् । वृथाशब्दस्य निपातस्य स्वात्मपौरुषनिन्दा प्रति व्यञ्जकता । भुजैरिति बहुव- चनेन प्रत्युत भारमात्रमेतदिति व्यज्यते । तेन तिलशस्तिलशोऽपि विभज्यमानेऽत्र श्लोके सर्व एवांशो व्यञ्जकत्वेन भातीति किमन्यत् । एतदर्थप्रदर्शनस्य फलं दर्शयति-एवमिति एकस्य पदस्येति यदुक्तं तदुदाहरति-यथात्रेति ।

बालप्रिया

राक्षसकुलनामापि नक्ष्यति तथेत्यर्थः । राक्षसबलमिति। राक्षसकुलमिति च पाठः । सोऽपीत्यादिवाक्यव्यङ्ग्यं दशयति-तदिदमित्यादि । पुरुषकारासम्पत्तिरिति । स्वपौरुषप्रकर्षाभाव इत्यर्थः । तिङ्कारकशक्तिप्रतिपादकैशब्दैर्ध्वन्यत इत्यन्वयः । तिङ्च कारकशक्तिप्रतिपादकाश्च तैः । तिनिहन्तीति कारकशक्तयः-अधिकरणत्व- कर्तृत्वकर्मत्वरूपाः । पूर्वमेव व्याख्यातमिति । महेन्द्रपुरोविमर्दनादिकारित्वं राव. णपदेन व्यज्यत इति भावः । निपातस्येति । व्यञ्जकत्वमिति शेषः । आख्यायि. यिकेति । कल्पितार्था वागित्यर्थः । इतीति । इत्यर्थं प्रतीत्यर्थः । सहकृत इति षष्ठयन्तं निपातस्येत्यस्य विशेषणम् । उपसंहरति-तेनेत्यादि । विभज्येत्यत्र निर्भ- ।