पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४८
सटीकलोचनोपेतध्वन्यालोके


चशब्दान्निपातोपसर्गकालादिभिः प्रयुक्तैरभिव्यज्यमानो दृश्यते । यथा-

न्यक्कारो ह्ययमेव मे यदर यस्तत्राप्यसौ तापस:
सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।

घिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥


लोचनम्

 एतदुक्तं भवति-वर्णादिभिः प्रवन्धान्तैः साक्षाद्वा रसोऽभिव्यज्यते विभावादिन- तिपादनद्वारेण यदिवा विभावादिव्यञ्जनद्वारेण परम्परयेति तत्र बन्धस्यैतत्परम्परया व्यञ्जकत्वं प्रसङ्गादादावुक्तम् । अधुना वर्णपदादी नामुच्यत इति । तेन वृत्तावपि 'अभिव्यज्यमानो दृश्यते' इति । व्यञ्जकत्वं दृश्यत इत्यादौ च वाक्यशेषोऽध्याहार्यः विभावादिव्यञ्जनद्वारतया पारम्पर्येणेत्येवंरूपः । ममारय इति । मम शत्रुसद्भावो नोचित इति सम्बन्धानौचित्यं क्रोधविभावं व्यनक्ति अरय इति बहुवचनम् । तपो विद्यते यस्येति पौषकथाहीनत्वं तद्धितेन मत्वर्थीयेनाभिव्यक्तम् । तत्रापिशब्देन निपातसमुदायेनात्यन्तासम्भावनीयत्वम् । मत्कर्तृका यदि जीवनक्रिया तदा हननक्रिया तावदनुचिता । तस्यां च स कर्ता अपिशब्देन मनुष्यमात्रकम् । अत्रैवेति-मदधिष्ठितो

बालप्रिया

 तात्पर्यमाह-एतदुक्तमित्यादि । विभावादिप्रतिपादनद्वारेण साक्षाद्वा विभावादि- व्यञ्जनद्वारेण परम्परया वा रसोऽभिव्यज्यत इति सम्बन्धः । आदाविति । पूर्व- कारिकायामित्यर्थः । व्याख्यातार्थानुरोधेन वृत्तिग्रन्थं योजयति-तेनेत्यादि । इत्येवंरूपो वाक्यशेष इत्यन्वयः । व्यञ्जनद्वारतयेति । रसादिस्सुब्विशेषादिभिर्विभावादिव्यञ्ज- नद्वारा पारम्पयेणाभिव्यज्यमानो दृश्यत इत्याद्यर्थ इति भावः ।

 'न्यक्कार' इति । इयं श्रीरामेण राक्षसकुलक्षये क्रियमाणे क्रुद्धस्य रावणस्य स्वा- धिक्षेपोक्तिः । मे अरयस्सन्ति यदयमेव न्यक्कार इत्याद्यन्वयः । 'प्रबोधितवतेति । णिजन्ताद्भावे क्ते ततो मतुपि बोध्यम् । स्वर्ग एव ग्रामटिका स्वल्पग्रामः । श्लोकोऽयं काव्यप्रकाशेऽप्युदाहृतः । वृत्युक्तं व्यञ्जकत्वं विवृणोति-मे इत्यादि । बहुत्वेन शत्रुम- त्ता ममानुचितेति सम्बन्धानौचित्यरूपं क्रोधविभावमरय इति बहुवचनं व्यजयतीति बहुवचनमित्यन्तस्यार्थः । वृत्तौ 'सम्बन्धे'त्यस्य षष्टयर्थसम्बन्धेत्यर्थः । अभिव्यक्त मिति । अदश्शब्दार्थस्येति शेषः । अत्यन्तासम्भावनीयत्वमिति । तापसगत- शत्रुताया अत्यन्तासम्भाव्यत्वमभिव्यक्तमित्यर्थः । अभिव्यक्तपदस्य यथायोगमुत्तर- त्रापि सम्बन्धो बोध्यः । हननक्रियेति । यत्किञ्चित्कर्तृकाऽपीति शेषः । सः तापसः मानुषमात्रकः कुत्सितो मनुष्य एव । नीत्युपसर्गार्थविवरणम्-निश्शेषेणेति । यथा