मुप्तिवचनसम्बन्धैस्तथा कारकशक्तिभिः । |
अलक्ष्यक्रमो ध्वनेरात्मा रसादिः सुब्विशेषैस्तिङ्विशेषवचनविशेषैः
सम्बन्धविशेषः कारकशक्तिभिः कृद्विशेषैस्तद्धितविशेषैः समासैश्चेति ।
लोचनम्
न चेह जीवितः कश्चित्कालधर्म मुपागतः । |
इत्याद्यवोचत् । गोमायुस्तु निशोदयावधि अमी तिष्ठन्तु, ततो गृध्रादपहृत्याह भक्षयिष्यामीत्यभिप्रायेणावोचत् ।
आदित्योऽयं स्थितो मूढाः स्नेहं कुरूत साम्प्रतम् । |
इत्यादि । स चाभिप्रायो व्यक्तः शान्तरस एव परिनिष्ठिततां प्राप्तः ॥ १५ ॥
एवमलक्ष्यक्रमव्यङ्गयस्य रसादिध्वनेर्यद्यपि वर्णेभ्यः प्रभृति प्रबन्धपर्यन्ते व्यञ्जकवर्गे निरूपिते ननिरूपणीयान्तरमवशिष्यते, तथापि कविसहृदयानां शिक्षा दातुं पुनरपि सूक्ष्म- दृशान्वयव्यतिरेकावाश्रित्य व्यञ्जकवर्गमाह-सुप्तिङिङत्यादि । वयं त्वित्थमेतदनन्तरं सवृत्तिकं वाक्यं बुध्यामहे। सुवादिभिः योऽनुस्वानोपमो भासते वक्त्रभिप्रायादिरूपः भ. स्यापि सुवादिभिर्व्यक्तस्यानुस्वानोपमस्यालक्ष्यक्रमव्यङ्गयो द्योत्यः। क्वचिदिति पूर्वकारि. कया सह संमील्य सङ्गतिरिति । सर्वत्र हि सुवादीनामभिप्रायविशेषाभिव्यञ्जकत्वमेव । उदाहरणे स त्वभिव्यक्तोऽभिप्रायो यथास्वं विभावादिरूपताद्वारेण रसादीन्व्यनक्ति ।
बालप्रिया
इत्याहेति । इत्यभिप्रायेणादेत्यर्थः । कालधर्ममिति । मरणमित्यर्थः । जीवे. दपीति । बालोऽयमिति शेषः । कनकवर्णवदाभातीति कनकवर्णाभः, कनकव- र्णस्य हेमकुम्भादेराभा कान्तिरिवाभा यस्य इति वा तम् । त्यक्ष्यध्वं पितृपिण्डद- मिति च पाठः । त्यक्ष्यष्वमित्यार्षः प्रयोगः । स चाभिप्राय इति । जनविसर्जना- भिप्रायः, भक्षणाभिप्राय इति वा अर्थः ॥ १५ ॥
एवमित्यादि । निरूपिते निरूपिते सति न अवशिष्यत इति सम्बन्धः । यथाऽनुस्वानेत्यादिपूर्वग्रन्थो व्याख्यातस्तथा सुबित्यादिप्रन्थं व्याख्यातुमारभते- वयमित्यादि । एतदनन्तरं सुप्तिवचनेत्यादिकम् । सुबित्यादीनां तृतीयान्तानां पूर्व- कारिकास्थेन भासत इत्यनेन तत्स्थस्यास्य ध्वनेरपीत्यस्यात्रत्येन द्योत्य इत्यनेन च सम्बन्ध इति व्याचष्टे-सुवादिभिरित्यादि । उक्तमुपपादयति-सर्वत्र हीत्यादि ।