पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४६

सटीकलोचनोपेतध्वन्यालोके



गमे विषमबाणलीलायाम् । यथा च गृध्रगोमायुसंवादादौ महाभारते ।


लोचनम्

लोलादाढा शुध्यूड्ढासअलमहिमण्डलसश्चिअ अज्ज ।
कीस्मसुणालाहरतुज्जआइ अङ्गम्मि ॥

 इत्यादयः पाञ्चजन्योक्तयो रूक्मिणीविप्रलब्धवासुदेवाशयप्रतिभेदनाभिप्रायमभि- व्यञ्जयन्ति । सोऽभिव्यक्तः प्रकृतरसस्वरूपपर्यवसायी। सहचराः वसन्तयौवनमलयानि. लादयस्तैः सह समागमे ।

मिअवहण्डिअरोरोणिरङ्कुसो अविवेअरहिओ वि ।
सविण वि तुमम्मि पुणोवन्ति अ अतन्ति पंमुसिम्मि ॥

 इत्यादयो यौवनस्योक्तयस्तत्तन्निजस्वभावव्यञ्जिकाः, स स्वभावः प्रकृतरसपर्यव- सायी । यथा चेति । श्मशानावतीर्णं पुत्रदाहार्थमुद्योगिनं जनं विप्रलब्धुं गृध्रो दिवा शवशरीरभक्षणार्थी शीघ्रमेवापसरत यूयमित्याह ।

अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसङ्कुले ।
कङ्कालबहले घोरे सर्वप्राणिभयङ्करे ॥

बालप्रिया

 लीलेति । "लीलादाढग्गुद्धरिअस अलमहीमण्डलस्सविअअज्ज । कीसमुणालह- रणं वितुझगुरु आइ अङ्गम्मि ॥ इति पाठः ।

लीलादंष्ट्राग्रोद्धृतसकलमहीमण्डलस्यैवाय । .
कस्मान्मृणालाभरणमपि तव गुरु भवत्यङ्गे ।। इतिच्छाया।

 लीलया दंष्ट्राग्रेण उद्धृतं सकलमहीमण्डलं येन वराहरूपिणा तस्यैत्यनेन गुरुत- रवस्तुवहने अनायासस्सूच्यते । एवकारो विरोधद्योतकः । मृणालाभरणमपि अतिलघु: मृणालरूपमाभरणमपि । कस्माद्गुरु भवतीति सम्बन्धः । अनेन भगवतो विरहाव- स्थातिशयो द्योत्यते । एतमर्थ दर्शयति-रुक्मिणीत्यादि । रुक्मिणीविप्रलब्धो- रुक्मिणीविरही यो वासुदेवस्तस्याशयो रुक्मिण्यामभिलाषः, तस्य प्रतिभेदनमाविष्क- रणं तदभिप्रायमित्यर्थः । प्रकृतरसेति। विप्रलम्भशृङ्गारेत्यर्थः । सहचरसमागमे इत्येतद्विवृणोति-सहचरा इत्यादि । मिश्रवेति

हुम्मि अवस्थिअरे होणिरङ्कुसो अविवेअरहिमोवि ।
सिविणेवि तुमम्मि पुणो भन्तिं णपसुमरामि । इति पाठः ।
भवाम्यपहस्तितरेखो निरङ्कुशोऽथ विवेकरहितोऽपि ।'
स्वप्नेऽपि तव पुनर्भक्तिं न प्रस्मरामि ॥ इति छाया ।

 अपहस्तितरेख इति । अतिक्रान्तमर्याद इत्यर्थः। तत्तन्निजस्वभावेति । कामानुवर्तनादिस्वभावेत्यर्थः । अलमित्यादि । काव्यप्रकाशेऽप्युदाहृता इमे श्लोकोः । ।