पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४५
तृतीयोद्द्योतः


- किञ्च

अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः ।
ध्वनेरस्य प्रबन्धेषु भासते सोऽपि केषुचित् ॥ १५ ॥

 अस्य विवक्षितान्यपरवाच्यस्य ध्वनेरनुरणनरूपव्यङ्गयोऽपि यः प्रभेद उदाहृतो द्विप्रकारः सोऽपि प्रबन्धेषु केषुचिद्द्योतते । तद्यथा मधु- मथनविजये पाञ्चजन्योक्तिषु । यथा वा ममैव कामदेवस्य सहचरसमा.


लोचनम्

 न केवलं प्रबन्धेन साक्षाद्वयङ्गयो रसो यावत्पारम्पर्येणापीति दर्शयितुमुपक्रमते- किञ्चेति । अनुस्वानोपमः-शब्दशक्तिमूलोऽर्थशक्तिमूलश्च, यो ध्वनेः प्रभेद उदाहृतः सः केषुचित्प्रबन्धेषु निमित्तभूतेषु व्यञ्जकेषु सत्सु व्यङ्गयतया स्थितः सन् । अस्येति रसादिध्वनेः प्रकृतस्य भासते व्यञ्जकतयेति शेषः । वृत्तिग्रन्थोऽप्येवमेव योज्यः । अथ वानुस्वानोपमः प्रभेद उदाहृतो यः प्रबन्धेषु भासते अस्यापि 'द्योत्योऽलक्ष्यक्रमः क्वचित्' इत्युत्तरश्लोकेन कारिकावृत्त्योः सङ्गतिः ।

 एतदुक्तं भवति-प्रबन्धेन कदाचिदनुरणनरूपव्यङ्गयो ध्वनिः साक्षाद्वयज्यते स तु रसादिध्वनौ पर्यवस्यतीति । यदि तु स्पष्टमेव व्याख्यायते तदा ग्रन्थस्य पूर्वोत्त- रस्यालक्ष्यक्रमविषयस्य मध्ये ग्रन्थोऽयमसङ्गतः स्यात् , नीरसत्वं च पाञ्चजन्योक्त्या- दीनामुक्तं स्यादित्यलम् ।

बालप्रिया

 स्वव्याख्यास्यमानार्थाभिप्रायेण 'किञ्चेत्यादिग्रन्थमवतारयति-न केवलमि- त्यादि । पारम्पर्यणापीति । व्यंग्यान्तरद्वारेणापीत्यर्थः । कारिकां व्याचष्टे-मनु- स्वानेत्यादि । ध्वनेरित्यस्य प्रभेद इत्यनेन सम्बन्ध इति दर्शयति-ध्वनेः प्रभेद इति । पूरयति-व्यञ्जकेष्वित्यादि । अस्येत्यस्य व्याख्यानम्-रसादिध्वनेः प्रकृत- स्येति । अत्रापि पूरयति--व्यञ्जकतयेति । भासते इत्यनेन सम्बन्धः । प्रकारान्त- रेण व्याचष्टे-अथवेत्यादि । य उदाहृतः स केषुचित् प्रबन्धेषु भासते इत्यन्त अनु- वादः । अस्य ध्वनेरपीत्यवशिष्टांशस्य उत्तरकारिकास्थेन द्योत्य इत्यनेनान्वयः । अस्य ध्वनेरपीत्यस्यानुस्वानोपमध्वनेरपीत्यर्थश्चेति भावः ।

 एवं द्वेधाऽपि व्याख्यानेन लब्धमर्थमाह-एतदित्यादि । यथाश्रुतार्थपरित्यागे बीजमाह-यदीत्यादि । ग्रन्थोऽयमिति । अनुस्वानोपमेत्यादिकारिकेत्यर्थः । दोषान्तरं चाह-नीरसत्वमित्यादि । नीरसत्वमुक्तं स्यादिति । नीरसत्वं प्रदर्शितं भवेदित्यर्थः ।

 ४४वक