पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४४
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

 दाक्षिण्योपहतेन सा प्रियतमा स्वप्तेऽपि नासादिता ॥ इत्यादिना । पञ्चमेऽपि समागमप्रत्याशया करुणे निवृत्ते विप्रलम्भेऽङ्कुरिते

तथाभूते तस्मिन्मुनिवचसि जातागसि मयि
प्रयत्नान्तर्गूढां रुषमुपगता मे प्रियतमा ।
प्रसीदेति प्रोक्ता न खलु कुपितेत्युक्तिमधुरं
समुद्भिना पीतैर्नयनसलिलैः स्थास्पति पुनः ॥

 इत्यादिना । षष्ठेऽपि त्वत्सम्प्राप्तिविलोभितेन सचिवैः प्राणा मया धारिताः' इत्यादिना । अलङ्कृतीनामिति योजनापेक्षया कर्मणि षष्ठी। दृश्यन्ते चेति । यथा स्वप्नवासवदत्ताख्ये नाटके-

'स्वञ्चितपक्षमकपाटं नयनद्वारं स्वरूपताडेन ।
उद्घाटय सा प्रविष्टा हृदयगृहं मे नृपतनूजा ॥' इति ॥ १४ ॥

बालप्रिया

चिन्तनरूपनिद्राप्रतिबन्धकेन जाग्रतो मे निशा क्षीणेति सम्बन्धः। निशा निद्रां विनै- वातीतेत्यर्थः । अत आह-दाक्षिण्येत्यादि । दाक्षिण्यमत्र पद्मावतीविषयकं बोध्यम् । सा वासवदत्ता । अङ्कुरित इत्यादिना अनुसंहित इति सम्बन्धः ।

 तथा भूत इति । मुनिवचसीति निमित्ते सप्तमी। स्थास्यतीत्यनेनास्यान्वयः । सा प्रियतमा तथा मम पुनःपश्चादपि पुर इति वा पाठः। स्थास्यतीत्याशंसायां लृट् । प्रयत्नान्तर्गूढामिति । प्रयत्नैरन्तर्नियमितामित्यर्थः । उक्त्या मधुरं मनोहरं यथा तथा । समुद्भिन्ना संमिश्रा, युक्तेति यावत् पीतैः अन्तःस्तम्भितैः समुद्भिन्नप्रीतिरिति पाठः । साधिष्ठः समुद्भिन्ना प्रकाशिता प्रीतिः यया सेत्यर्थः । नयनसलिलोद्गमो हि कुपितानां स्त्रीणां प्रीतेरनुावः। त्वदिति । आदिपदेन

"तन्मत्वा त्यजतश्शरीरकमिदं नैवास्ति निस्स्नेहता
आसन्नोऽवसरस्तवानुगमने जाता धृतिः किंत्वयम् ।
खेदो यच्च तवानुगं न हृदयं तस्मिन् क्षणे दारुण ॥

 इत्यस्य सङ्ग्रहः । सचिवैः प्रयोजकैः मया प्रयोज्येन । 'तदिति । त्वत्सम्प्रा-प्तिमित्यर्थः । अत्यजत इति च्छेदः । इत्यादिनेति तृतीयान्तानामनुसंहित इत्यने नान्वयो बोध्यः । योजनापेक्षयेति । योजनमिति कृदन्तापेक्षयेत्यर्थः ।

 स्वञ्चितेति । वत्सराजोक्तिरियम् । स्वच्चिते प्रवेशप्रतिबन्धाय सुष्टु मिथः सम्बद्धे पक्ष्मणी एव कवाटे यस्य तत् । नयनद्वारं नयनमेव द्वारम् । स्वरूपताडेन स्वस्य रूपमाकृतिः तदेव ताडः ताडनक्रिया साधनमुद्गाढनकरणमिति यावत् तेन । स्वरूपत. डितैवेति पाठेस्वरूपमेव तडिद्विद्युत्तया करणेनेति तदर्थः । सा नृपतनूजा वासवदत्ता । अत्र नयनद्वारमित्येतावदेव रूपणं शृङ्गारानुगुणतया सुन्दरं न त्वन्यदपीति भावः ॥१४॥