लोचनम्
हि-प्रथमे तावदके स्फुटं स एवोपनिवद्धः 'तद्वक्रेन्दुविलोकनेन दिवसो नीतः प्रदो- षस्तथा तद्गोष्ठयैव' इत्यादिना, 'बद्धोत्कण्ठमिदं मनः किमथवा प्रेमाऽसमाप्तोत्सवम्' इत्यन्तेन । द्वितीयेऽपि 'दृष्टिर्नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्त्रं न किम्' इत्यादिना स एव विच्छिन्नोऽप्यनुसंहितः । तृतीयेऽपि
सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्रुते |
इत्यादिना । चतुर्थेऽपि
देवीस्वीकृतमानसस्य नियतं स्वप्नायमानस्य मे |
बालप्रिया
प्रष्टुं प्रवृत्तस्य मे” इत्यादिपदेन ग्राह्यम् । तद्वक्त्रेति । तत्पदेनात्र सर्वत्र वासव- दत्तायाः परामर्शः । दिवसः अहस्समयः। तया सह गोष्ठी सम्भाषणादिस्त गोष्ठी तया। निशापीत्यत्र नीतेति विपरिणामेन सम्बन्धः । मन्मथेति । मन्मथेन कृतः उत्पादितः उत्साहः येषां तैः । किं कुतः बद्धोत्कण्ठं भवति । विमृश्याह-अथवे. त्यादि । असमाप्तः उत्सवः वक्त्रेन्दुविलोकनादिरूपो यत्र । यद्वा-असमाप्तः अस- मापितः उत्सवः येन तत् । भवति इत्यन्तेनानुसंहित इति सम्बन्धः। दृष्टिरिति । नामृतधर्मिणीति च पाठः । आदिपदेन
नोर्ध्वार्द्रं हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा |
इत्यस्य सङ्ग्रहः । ते दृष्टिः अमृतवर्षिणी किममृतवर्षिण्येवेत्यर्थः । एवमुप- र्यपि किंशब्दो नञ्पदैर्योज्यः । ऊर्ध्वार्द्रमुपरिभागे आर्द्रताविशिष्टम् । नो वार्द्रमिति वा पाठः । पूर्वार्द्धेन दृष्ट्याद्यङ्गेषु विरोघि सद्भावादग्नेः पदलाभो न भवतीति दर्शितमत एवाह-'कस्मिन्नित्यादि कस्मिन् कृताङ्गे इदं कृतमित्येतद्विवृणोति–'क्रूरेणे'त्यादि त्वं क्रूरेणाग्निना पीता दग्धा इति यदिदमिति सम्बन्धः। शोकावेशवशादाह-'नूनमि' त्यादि । दहनः त्वद्दाहकोऽग्निः । वज्रमयोन्य एव । नूनं सम्भावयामि ।
सर्वत्रेति । वराक्या निर्भाग्यया तया देव्या तथा दग्धमिति सम्बन्धः । देवीति। देवीत्यादिहेतुगम् । देवी वासवदत्ता । नियतमिति सम्भावनायाम् । स्वप्ने सम्भा- व्यमानात्तद्गात्रग्रहणादित्यर्थः । इयमिति । पद्मावतीत्यर्थः । इत्थं यन्त्रणया एवं