पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४२
सटीकलोचनोपेतध्वन्यालोके


मन्तरा रसस्य, यथा रत्नावल्यामेव । पुनराब्धविश्रान्ते रसस्याङ्गिनोऽ नुसन्धिश्च । यथा तापसवत्सराजे । प्रबन्धविशेषस्य नाटकादे रसव्यक्ति. निमित्तमिदं चापरमवगन्तव्यं यदलंकृतीनां शक्तावप्यानुरूप्येण योजनम् । शक्तो हि कविः कदाचिदलकारनिबन्धने तदाक्षिप्ततयैवानपेक्षितरसबन्धः प्रबन्धमारभते तदुपदेशार्थमिदमुक्तम् । दृश्यन्ते च कवयोऽलङ्कारनिबन्ध नैकरसा अनपेक्षितरसाः प्रबन्धेषु ।


लोचनम्

त्तवशादारब्धाशङ्कयमानप्राया न तु सर्वथैवोपनता विश्रान्तिर्विच्छेदो यस्य स तथा । रसस्येति । रसाङ्गभूतस्य कस्यापीति यावत् । तापसवत्सराजे हि वासवदत्ताविषयो जीवितसर्वस्वाभिमानात्मा प्रेमबन्धस्तद्विभावाद्यौचित्यात्करुणविप्रलम्भादिभूमिका गृह्ण- न्समस्तेतिवृत्तव्यापी । राज्यप्रत्यापत्त्या हि सचिवनीतिमहिमोपनतया तदङ्गभूतपद्मा- वतीलाभानुगतयानुप्राण्य मानरूपा परमामभिलषणीयतमतां प्राप्ता वासवदत्ताधिगतिरेन तत्र फलम् । निर्वहणे हि 'प्राप्ता देवी भूतधात्री च भूयः संबन्धोऽभूद्दर्शकेन' इत्येवं देवीलाभप्राधान्यं निर्वाहितम् । इयति चेतिवृत्तवैचित्र्यचित्रे भित्तिस्थानीयो वासवद. त्ताप्रेमबन्धः प्रथममन्त्रारम्भात्प्रमृति पद्मावतीविवाहादौ, तस्यैव व्यापारात् । तेन स एव वासवदत्ताविषयः प्रेमबन्धः कथावशादाशङ्कयमानविच्छेदोऽप्यनुसंहितः। तथा

बालप्रिया

तत्र तदनुसन्धानं सम्पादयितव्यमित्यर्थः । अङ्गिनो रसस्येत्यत्र रसपदेन विवक्षि- तमाह-रसाङ्गभूतस्येति । कस्यापीति । विभावादेरित्यर्थः । 'यथा तापसवत्सराज इत्युक्तं विवृणोति-तापसवत्सराजे हीत्यादि । प्रेमबन्ध इति । वत्सराजगत इति शेषः । समस्तेति । वृत्तव्यापीत्यनेनास्य सम्बन्धः । करुणेति । क्रमोऽत्र बोध्यः । उक्तं दृढीकरोति-राज्येत्यादि। प्राप्तेत्यत्र हेतुः-राज्यप्रत्यापत्यानुप्राण्यमा. नरूपेति । राज्यप्रत्यापत्तेः विशेषणद्वयम्-सचिवेत्यादि । उक्तमुपपादयति- निर्वहण इत्यादि । प्राप्तेति ।

दृष्टा यूयं निर्जिता विद्विषश्च प्राप्ता देवी भूतधात्री च भूयः।
सम्बन्धोऽभूद्दर्शकेनापि सार्धं किं ते दुःखं यत्ततश्शान्तमद्य ॥

 इति सम्पूर्णश्लोकः । 'रसस्यारब्धविश्रान्तेरि त्याद्युक्तं सङ्गमयति-इयतीत्यादि । इतिवृत्तवैचित्र्यचित्र इति । आलेख्य तुल्ये विचित्रेतिवृत्त इत्यर्थः। प्रभृतिभित्ति- स्थानीय इत्यन्वयः । व्यापारादिति । व्यापरणादित्यथः व्याप्तेरिति यावत् । इत्यादिनेति । “निशापि मन्मथकृतोत्साहैस्तदङ्गार्पणैः तां सम्प्रत्यपि मार्गदत्तनयनां