पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४१
तृतीयोद्द्योतः


इदं चापरं प्रबन्धस्य रसव्यञ्जकत्वे निमित्तं यदुद्दीपनप्रशमने यथावसर-


लोचनम्

 इति प्रतिमुखसन्ध्यङ्गविलासलक्षणे । रतिभोगशब्द आधिकारिकरसस्थाथिभावोप- व्यञ्जकविभावाद्युपलक्षणार्थत्वेन प्रयुक्तः, यथा तत्त्वं नाधिगतार्थ इति, प्रकृतो ह्यत्र वीररसः । उद्दीपन इति । उद्दीपनं विभावादिपरिपूरणया। यथा-'अयं स राआ उदयणो त्ति' इत्यादि सागरिकायाः। प्रशमनं वासवदत्तासः पलायने । पुनरुद्दीपनं चित्रफलकोल्लेखे । प्रशमनं सुसङ्गताप्रवेशे इत्यादि । गाढं ह्यनवरतपरिमृदितो रसः सुकुमारमालती कुसुमवज्झटित्येव म्लानिमवलम्बेत । विशेषतस्तु शृङ्गारः । यदाह मुनिः-

यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते ।
दुर्लभत्वं यतो नार्या कामिनः सा परा रतिः ॥ इति ।

 वीररसादावपि यथावसरमुद्दोपनप्रशमनाभ्यां विना झटित्यवाद्भुतफलकल्पे साध्ये लब्धे प्रकटीचिकीर्षित उपायोपेयभावो न प्रदर्शित एव स्यात् । पुनरिति । इतिवृ-

बालप्रिया

हेति । समीहा इच्छा । रतिभोगार्थेति । सुरतानुभवविषयिकेत्यर्थः । यद्वा-रतेः रत्याख्यस्थायिनः यो भुज्यत इति भोगो विषयः प्रमदादिः तदर्था तत्सम्भोगार्था इत्य- र्थः। आधिकारिकेति । आधिकारिको यो रसो वर्ण्यमानः तस्य यः स्थायीभावस्तदुप- व्यञ्जको यो विभावादिः तदुपलक्षणार्थत्वेन तदुपलक्षकत्वेनेत्यर्थः । न तु पूर्वोक्तवाच्या. र्थमानपरत्वेनेति भावः । प्रयुक्त इति । मुनिनेति शेषः । यथेति । यथातत्त्वमधिग- तो ज्ञातोऽर्थो मुन्यभिप्रेतार्थो यस्य तथाभूतो न, किन्तु तद्वाच्यार्थ एवाधिगत इति भावः । वेणीसंहारकृतेति शेषः । इतीत्यस्याशय इत्यनेनान्वयः। ननु वेणीसंहारे क आधिकारिको रस इत्यत्राह-प्रकृत इति । न तु श्रृगार इति भावः । अन्यथा दोषं दर्शयति-गाढमित्यादि । अनवरतपरिमृदितः अविच्छेदेनास्वादितः । माल. तीति । अनवरतमृदितमालतीत्यर्थः ।

 यदिति। वामाभिनिवेशित्वं नार्याः प्रतिकूलाचरणाभिलाषः । यतश्च यच्च विनिवार्यते नार्या सम्भोग इति शेषः । यतः यत् सा एतत्रयम् , परा रतिः विनितसम्भोगाया नार्यास्सम्भोगः परमप्रीतिहेतुरित्यर्थः । न केवलं शृङ्गारे रसान्तरे. ऽप्युक्तं ग्राह्यमित्याह-वीरेत्यादि । अद्भुतफलेति । इन्द्रजालादिदर्शितफलेत्य- र्थः । प्रकटीचिकीर्षितः कविना प्रकटीकर्तुमभिलषितः । उपायेति । नायकादि. तत्तद्व्यापारस्य चतुर्वर्गस्य च हेतुहेतुमद्भाव इत्यर्थः । नैवेति योजना। आरब्धे. त्यनेन प्रकृते विवक्षितमाह-आशङ्कयमानप्रायेति । उपनता जाता । विश्रान्ति- पदार्थमाह-विच्छेद इति । तथाच यत्र यत्राङ्गिनो रसस्य विच्छेदः प्राप्नुयात्तत्र देतः । माल


 १.भरतना., २४. १९९.