पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
सटीकलोचनोपेतध्वन्यालोके


रसाभिव्यक्त्यपेक्षया, यथा रत्नावल्याम्; न तु केवलं शास्त्रस्थिति- सम्पादनेच्छया । यथा वेणीसंहारे विलासाख्यस्य प्रतिमुखसन्ध्यङ्गस्य प्रकृ. तरसनिबन्धाननुगुणमपि द्वितीयेऽङ्के भरतमतानुसरणमात्रेच्छया घटनम् ।


लोचनम्

महाफलान्तरानुवन्धिकन्यालाभफलोद्देशेन प्रस्तावनोपक्रमे पञ्चापि सन्धयोऽवस्था- पञ्चकसहिताः समुचितसन्ध्यङ्गपरिपूर्णा अर्थप्रकृतियुक्ता दर्शिता एव । 'प्रारम्भेऽ स्मिन्स्वामिनो वृद्धिहेतौ' इति हि बीजादेव प्रभृति 'विश्रान्तविग्रह कथः' इति 'राज्यं निर्जितशत्रु' इति च वचोभिः 'उपभोगसेवावसरोऽयम्' इत्युपक्षेपात्प्रभृति हि निरू- पितम् । एतत्तु समस्तसन्ध्यङ्गस्वरूपं तत्पाठपृष्ठे प्रदश्यमानमतितमां ग्रन्थगौरव- मावहति । प्रत्येकेन तु प्रदर्श्यमानं पूर्वापरानुसन्धानवन्ध्यतया केवलं संमोहदायि भवतीति न विततम् । अस्यार्थस्य यत्नावधेयत्वेनेष्टत्वात्स्व कण्ठेन यो व्यतिरेक उक्तो 'न तु केवलया' इति तस्योदाहरणमाह-न त्विति । केवलशब्दमिच्छा- शब्दं च प्रयुञ्जानस्यायमाशयः-भरतमुनिना सन्ध्यङ्गानां रसाङ्गभूतमितिवृत्तप्राश. स्त्योत्पादनमेव प्रयोजनमुक्तम् । न तु पूर्वरङ्गाङ्गवददृष्टसम्पादनं विघ्नादिवारणं वा । यथोक्तम्-

इष्टस्यार्थस्य रचना वृत्तान्तस्यानपक्षयः।
रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् ॥
आश्चर्यवदभिख्यानं प्रकाश्याना प्रकाशनम् ।
 अङ्गानां षड्विधं ह्येतद्दष्टं शास्त्रे प्रयोजनम् ॥ इति ।

ततश्च-

समीहा रतिभोगार्थी विलासः परिकीर्तितः ।

बालप्रिया

द्धसम्भोगसेवायाः श्लाघनीयत्वादित्यर्थः । तत्पाठपृष्ठे प्रदर्श्यमानमिति । रत्ना- लीस्थतत्तद्वाक्यानि सर्वाण्युदाहृत्य प्रदर्श्यमानमित्यर्थः । प्रत्येकेनेति । पूर्वापरवाक्यं विना उदाहरणमात्रमित्यर्थः । न विततमिति । सविस्तरं सोदाहरणं वृत्तौ नोक्तमित्य- र्थः । अस्यार्थस्येति । सन्धिसन्ध्यङ्गघटनं रसादिव्यक्त्यपेक्षयेत्युक्तस्यार्थस्येत्यर्थः । इति यो व्यतिरेक इति सम्बन्धः । न त्वितीति । न त्वित्यादिग्रन्थेनेत्यर्थः । प्रयु: खानस्येति । कारिकाकर्तुरिति शेषः । अयमिति । नाधिगतार्थ इत्यन्तेन ग्रन्थेन वक्ष्यमाण इत्यर्थः । सन्ध्यङ्गानामिति प्रयोजनमित्यनेन सम्बध्नाति ।

 इष्टस्येति रचनाप्रतिपादनम् । प्रयोगस्य रागप्राप्तिः अभिनयरागसमृद्धिः । अभिनयदर्शनेन सामाजिकमनोरञ्जनसमृद्धिरिति यावत् । आश्चर्यवदिति । चमत्कार- कारीत्यर्थः । ततश्चेति । उक्तेन हेतुनेत्यर्थः । प्रयुक्त इत्यनेनास्य सम्बन्धः । समी-


 १. भरतना.२१.५३. २. भरतना., २१.७८.