पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३९
तृतीयोद्द्योतः


लोचनम्

सन्धीयन्त इति कृत्वा । तेषामपि सन्धीनां स्वनिर्वाह्य प्रति तथा क्रमदर्शनादवान्तरभिन्ना इतिवृत्तभागाः। सन्ध्यज्ङ्गानि-'उपक्षेपः परिकरः परिन्यसो विलोभनम्' इत्यदीनि ।

 अर्थप्रकृतयोऽत्रैवान्तर्भूताः । तथा हि स्वायत्तसिद्धर्बीज बिन्दुः कार्यमिति तिस्रः। बीजेन सर्वव्यापाराः बिन्दुनानुसन्धानं कार्येण निर्वाहः सन्दर्शनप्रार्थनाव्यवसायरूपा ह्येतास्तिस्रोऽर्थसम्पाद्ये कर्तुः प्रकृतयः स्वभावविशेषाः । सचिवायत्तसिद्धित्वे तु सचि- वस्य तदर्थमेव वा स्वार्थमेव वा स्वार्थमपि वा प्रवृत्तत्वेन प्रकीर्णत्वप्रसिद्धत्वाभ्यां प्रक- रीपताकाव्यपदेश्यतयोभयप्रकारसम्बन्धी व्यापारविशेषः प्रकरीपताकाशब्दाभ्यामुक्त इति । एवं प्रस्तुतफलनिर्वाहणान्तस्याधिकारिकस्य वृत्तस्य पञ्चसन्धित्वं पूर्णसन्ध्यङ्गता च सर्वजनव्युत्पत्तिदायिनी निबन्धनीया । प्रासङ्गके त्वितिवृत्ते नायं नियम इत्युक्तम् -

प्रासङ्गिके परार्थत्वान्न ह्येष नियमो भवेत्।

 इति मुनिना । एवं स्थिते रत्नावल्यां धीरललितस्य नायकस्य धर्माविरुद्धस- म्भोगसेवायामनौचित्याभावात्प्रत्युत न निस्सुखः स्यादिति श्लाध्यत्वात्पृथ्वीराज्य-

बालप्रिया

सन्धीनां तदङ्गानामुपक्षपादीनाञ्च लक्षणानि दशरूपकादिषु द्रष्टव्यानि । स्वनिर्वा- ह्यमिति । स्वनिर्वाह्य फलमित्यर्थः ।

 अर्थप्रकृतयोऽत्रैवेति । ताः “बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणा" इत्युक्ता बोध्याः । स्वायत्तसिद्धरिति । नायकत्रिविधः-स्वायत्तसिद्धिस्सचिवायत्तसिद्धि- रुभयायत्तसिद्धिश्चेति । बीजेन सर्वव्यापारा इति । विवक्षिता इति शेषः। एवमु. त्तरवाक्ययोरपि बोध्यम् । अनुसन्धानमिति । अवान्तरार्थैमुख्यप्रयोजनस्य वि- च्छेदे तत्सन्धानकरणमित्यर्थः । सन्दर्शनेत्यादि । तत्तत्प्रयोजनं मनसि कृत्य तसिद्धिं सम्प्रार्थ्य तदर्थो व्यवसायो भवतीति सन्दर्शनादिजन्यत्वाद्वीजादयस्तत्स्वरूपा इत्यर्थः । अर्थ इत्यादि । अनेनार्थप्रकृतय इत्यस्यावयवार्थो दर्शितः । अथ प्रकरीपताका- पदार्थौ दर्शयिष्यन्नाह-सचिवेत्यादि । तदर्थं नायकार्थम् । प्रकरीपताकापदाभ्यां व्यपदेशे क्रमेण हेतुः प्रकीर्णत्वप्रसिद्धत्वाभ्यामिति । इति मुनिना इत्युक्तमिति सम्ब- न्धः । इतीत्यस्य इति वदता इत्यर्थः । लक्ष्यं दर्शयति-एवमित्यादि । एवं स्थिते रत्नावल्यां दर्शिता एवेत्यन्वयः । इति श्लाध्यत्वादिति । इति वचनेन धर्माविरु-


सन्धिविरोधो प्रथनं निर्णयः परिभाषणम् ।
युतिः प्रसादश्चानन्दः समयो ह्युपगूहनम् ॥
भाषणं पूर्ववाक्यं च कायसंहार एव च ॥
प्रशस्तिरिति चाङ्गानि कुर्यान्निर्वहणे बुधः॥ इति ।

 एतेषामसङ्कीणोनि लक्षणानि भरतनाट्यशास्त्रे एकविंशाध्याय निरूपितानि, ततं एवावगन्तव्यानि ।

१. भरतना., २१.२०