पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३८
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

तस्यानुपूर्व्या विज्ञेयाः पञ्चावस्थाः प्रयोक्तृभिः ॥
प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च सम्भवः ।
नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥ इति ।

 एवं या एताः कारणस्यावस्थास्तत्सम्पादकं यत्कर्तुरितिवृत्तं पञ्चधा विभक्तम् । त. एव मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्या अन्वर्थनामानः पञ्च सन्धय इतिवृत्तखण्डाः,


१. यत्र बीजसमुत्पत्तिर्नानार्थर ससम्भवा ।
काव्ये शरीरानुगतं तन्मुखं परिकीर्तितम् ॥ भरना., २१. ३९.

इति मुखसन्धेर्लक्षणम् । तदङ्गानि च--

उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥
उद्भेदः करणं भेदो ह्येतान्यङ्गानि वै मुखे ॥ इति ।
बीजस्योद्घाटनं यत्तु दृष्टनष्टमिव क्वचित् ।
मुखे न्यस्तस्य सर्वत्र तद्वै प्रतिमुखं भवेत् ॥

इति प्रतिमुखसन्धेर्लक्षणम् । तदङ्गानि च---

विलासः परिसर्पश्च विधूतं तापनं तथा ।
नर्म नर्मद्युतिश्चैव तथा प्रशमनं पुनः ॥
निरोधश्चैव विज्ञेयः पर्युपासनमेव च ।
वज्रं पुष्पमुपन्यासो वर्णसंहारमेव च ॥ इति ||

गर्भसन्धेर्लक्षणं तदनानि च-

उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा।
पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ।।
अभूताहरणं मार्गो रूपोदाहरणे क्रमः ।
सङ्ग्रहश्चानुमानञ्च प्रार्थनाक्षिप्तमेव च ॥
तोटकाधिबले चैव चोद्भेदो विद्रवस्तथा ॥ इति ।

विमर्शतदङ्गानि च-

गभनिर्भिन्नबीजार्थो विलोभनकृतोऽपि वा।
किञ्चिदाश्लेषसंयुक्तो विमर्शस्स इति.स्मृतः ॥
अपवादोऽथ सम्फेटो विद्रवः शक्तिरेव च ।
व्यवसायः प्रसङ्गश्च द्युतिः खेदो निषेधनम् ।
विरोधनमथादानं छादनञ्च प्ररोचना ॥ इति ।

निर्वहणसन्धेर्लक्षणं तदङ्गानि च-

समानञ्च समार्थाना मुख्यार्थानां सबीजिनाम् ।
फलोपसडग्रहानाञ्च ज्ञेयं निर्वहणं तु तत् ।।