पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३७
तृतीयोद्द्योतः


लोचनम्

त्यमेव हि सत्यतः प्रीतेर्निदानमित्यसकृदवोचाम । विभावादीनां तद्रसोचितानां यथा. स्वरूपवेदनं फलपर्यन्तीभूततया व्युत्पत्तिरित्युच्यते । फलं च नाम यददृष्टवशाद्दवता. प्रसादादन्यतो वा जायते । न च तदुपदेश्यम् , तत उपाये व्युत्पत्ययोगात् । तेनो. पायक्रमेण प्रवृत्तस्य सिद्धिः अनुपायद्वारेण प्रवृत्तस्य नाश इत्येवं नायकप्रतिनायकगत. त्वेनार्थानर्थोपायव्युत्पत्तिः कार्या । उपायश्च कर्त्राश्रीयमाणः पञ्चावस्था भजते । तद्यथा- स्वरूपं, स्वरूपात्किञ्चिदुच्छूनतां, कार्यसम्पादनयोग्यतां प्रतिबन्धोपनिपातेनाशङ्कयमा. नतां, निवृत्तप्रतिपक्षतायां बाधकबाधनेन सुदृढफलपर्यन्तताम् । एवमार्तिसहिष्णूनां विप्रलम्भभीरूणां प्रेक्षापूर्वकारिणां तावदेवं कारणोपादानम् । ता एवंविधाः पञ्चावस्थाः कारणगता मुनिनोक्ताः-

संसाध्ये फलयोगे तु व्यापारः कारणस्य यः ।

बालप्रिया

फलपर्यन्तीभूततयेति । स्वरूपसंवेदनमित्यनेन सम्बन्धः । तदिति । अदृष्टादि- जन्यं फलमित्यर्थः। ततः तथाविधफलोपदेशेन । उपाये व्युत्पत्त्ययोगादिति । तत्तत्फलोपायविषयकव्युत्पत्यनुदयादित्यर्थः । तेनेति । उक्तहेतुनेत्यर्थः । सिद्धि- रिति । फलसिद्धिरित्यर्थः । अनुपायेति । अनुपाय शब्देनाहेतुरनिष्टहेतुश्च विवक्षितः। नाश इति । फलासिद्धिरनिष्टसिद्धिश्चेत्यर्थः । नायकप्रतिनायकगतत्वेनेति । अर्थानर्थेत्यनेन सम्बन्धः । यथासङ्ख्यं नायकप्रतिनायकगतौ यावर्थानर्थौ तदुपायस्य व्युत्पत्तिरित्यर्थः । कार्येति । कविना सम्पादनीयेत्यर्थः । कर्त्रैति । नायकादिने- त्यर्थः । स्वरूपमित्यादिद्वितीयान्तानां पञ्चावस्था इत्यनेन पूर्वस्थेन सम्बन्धः । स्व. रूपमिति । उपायस्यानुष्ठीयमानत्वस्वरूपमित्यर्थः । किश्चिदुच्छूनतामिति । किञ्चित्पोषमित्यर्थः । तद्रूपां कार्यसम्पादनयोग्यतामिति द्वितीयावस्था । प्रतिबन्धके त्यादि । प्रतिबन्धकोपनिपातेनाशङ्कयमानकार्यसिद्धिकत्वमित्यर्थः । निवृत्तप्रतिप. क्षतायामिति । प्रतिबन्धकनिवृत्तमित्यर्थः । प्रतिबन्धकनिवृत्त्या निश्चीयमान कार्यकत्व- मिति यावत् । प्रतापरुद्रीयव्याख्यायान्तु-प्रथमावस्थास्वरूपात् किञ्चिदुच्छूनत्वं, द्वि- तीया तु कार्यसम्पादनयोग्यता, तृतीया तु प्रतिबन्धकोपनिपातेन कार्यस्य शङ्कय- मानत्वं, चतुर्थी तु प्रतिबन्धकनिवृत्त्या कार्यस्य निश्चयः, पञ्चमी तु बाधकबाधनेन फलपर्यन्ततादाढर्थमित्युक्तम् , तदनुरोधे तु स्वरूपात् किञ्चिदुच्छूनतामित्यस्य स्वरूप. मित्यनेनान्वयो बोध्यः। आर्तिसहिष्णूनामिति । श्रमसहिष्णूनामित्यर्थः । यथो. क्तम्- "विघ्नैर्मुहुर्मुहुरपि प्रतिहन्यमाना" इत्यादि । विप्रलम्भेति । कार्यासिद्धी- त्यर्थः । संसाध्य इति । कारणस्येति । नायकादेरित्यर्थः । प्रारम्भादीनाम्मुखादि-


 १. भरतना., २१.७,९.

 ४३ ध्व०